भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6106-6125

6106

इयं महेन्द्रप्रभृतीनधिश्रियश् चतुर्दिगीशानवमत्य मानिनी ।
अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥

6107

इयं मुखाम्भोरुहसंनिधाने विलम्बिधम्मिल्लततिच्छलेन ।
समागतां सादरमेव बाला द्विरेफमालामुत वा दधाति ॥

6108

इयं यशांसि द्विषतः सुधारुचः किमङ्कमेतद् द्विषतः किमाननम् ।
यशोभिरस्याखिललोकधाविभिर् विभीषिता धावति तामसी मसी ॥

6109

इयं रङ्गप्रवेशेन कलानां चोपशिक्षया ।
वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥

6110

इयं विलासद्रुमदोहदश्रीर् इयं सुधा यौवनदुग्धसिन्धोः ।
लावण्यमाणिक्यरुचिच्छटेयम् इयं मनःकार्मणचूर्णमुष्टिः ॥

6111

इयं व्याधायते बाला भ्रूरस्याः कार्मुकायते ।
कटाक्षाश् च शरायन्ते मनो मे हरिणायते ॥

6112

इयं सम्ध्या दूरादहमुपगतो हन्त मलयात् तदेकां त्वद्गेहे करुणवति नेष्यामि रजनीम् ।
समीरेणैवोक्ता नवकुसुमिता चूतलतिका धुनाना मुर्द्धानं नहि नहि नहीत्येव कुरुते ॥

6113

इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा मदान्धव्याकूजत्तरुणजलरंकुप्रणयिनी ।
पुरा यस्यास् तीरे सरभससतृष्णं मुरभिदो गताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ॥

6114

इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत् ।
इतस् तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश् चायं कथमिदमिति भ्राम्यति मनः ॥

6115

इयं सुनयना दासीकृततामरसश्रिया ।
आननेनाकलङ्केन जयन्तीन्दुं कलङ्कितम् ॥

6116

इयं सुरतरङ्गिणी न पुनरत्र नौसंगमो भवेत् तरणिमज्जनं पथिक नैव पान्थागमः ।
निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे घनघनागमे घनरसस्य पारं व्रज ॥

6117

इयं सुस्तनी मस्तकन्यस्तकुम्भा कुसुम्भारुणं चारु वासो वसाना ।
समस्तस्य लोकस्य चेतःप्रवृत्तिं गृहीत्वा घटे न्यस्य यातीव भाति ॥

6118

इयं सृष्टा चञ्चत्कनकलतिका पङ्कजभुवा निषिक्ता लावण्यामृतरसभरेणानुदिवसम् ।
अकस्माद् रोमालीमधुपपटलीह स्फुरति यत् ततः शङ्के पुष्पोद्गमसमयमायातमधुना ॥

6119

इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्षकन्यका ।
अथवा विपिनस्यैव देवता किमु पार्वति ॥

6120

इयं हि निद्रा नयनावलम्बिनी ललाटदेशादुपसर्पतीव माम् ।
अदृश्यरूपा चपला जरेव या मनुष्यसत्त्वं परिभूय वर्धते ॥

6121

इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥

6122

इयं हि लोकव्यतिरेकवर्तिनी स्वभावतः पार्थिवता समुद्धता ।
बलात् तदेनां विनयेन योजयेन् नयस्य सिद्धौ विनयः पुरःसरः ॥

6123

इयता वयसा न साधितं यत् परतः किं नु करिष्यतीति वेधाः ।
तिलतण्डुलितास्य रोमरेखा- च्छलतः कज्जलचूर्णमालिलिम्प ॥
इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् ।
मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥

6124

इयती जगती कियती भविता नमिताननतामिति याति हयः ।
वियदङ्गणरिङ्गणरङ्गविधौ परिनर्तितुमुत्क्रमतीव नभः ॥

6125

इयत् पृथ्वीमात्रं तदनु च नभोमण्डलमिय- दियान् पातालान्तो जलमपि पृथिव्यामियदिति ।
इति ज्ञात्वा कूपे विदितविषयो नायमपरः परं मुग्धो भेकः प्रबलतररावं प्रकुरुते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc