महासुभाषितसंग्रह · श्लोक 6086-6105
इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयमिदं तदेतल् लीलाब्जं शरदमृतरश्मिः स्फुटमयम् ।
किमङ्गे तन्वङ्ग्याः कलयति जगत् कान्तमधिकं यदेतस्यां शश्वत् परवशमिवोन्मत्तमिव च ॥
इयं कलाविलासिनी कलावती समीपगा धृतारविन्दलोचना मनोजशोकमोचना ।
नवीननीरदच्छटासमानकेशभूषिता न कस्यचिज् जनस्य चित्तवृत्तितापखण्डिता ॥
इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् ।
ध्रुवं मनोज्ञा व्यतरद्यदुत्तरं मिषेण भृङ्गारधृतेः करद्वयी ॥
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोर् असावस्याः स्पर्शो वपुषि बहुलश् चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥
इयं गौरुद्दामा तव निबिडबन्धापि हि कथं न वैदर्भादन्यत् स्पृशति सुलभत्वेऽपि हि कथम् ।
अवन्ध्या च ख्याता भुवि कथमगम्या कविवृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥
इयं गौरेका नः क्वचिदपि न संयोजनविधाव् अमुष्याः पश्यामो रसभरमुचं कांचिदपराम् ।
गले बद्धा दध्मो यदि न धृतिरुद्दामविधृतौ भयं गोचोरेभ्यस् तदिह क उपायः प्रभवतु ॥
इयं घटी मत्तगजेन्द्रगामिनी- विचित्रसिंहासनसंस्थिता सदा ।
अनेकरामाजनलालिता परं विधेर्वशात् सैव सती प्रजार्थिनी ॥
इयं चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति हि शंभोरपि पदम् ।
पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत् कृत्स्नं पायादनुदिनमपायात् सुरधुनी ॥
इयं तावल् लीला यदधिरुरुहे वृद्धवृषभो यदुन्नेहे रुण्डं यदिह चितिभस्मापि लिलिपे ।
अयं को व्यापारो यदतिलकि भाले हुतवहो यदग्रैवि व्यालो यदकवलि हालाहलमपि ॥
इयं ते जननी प्राप्ता त्वदालोकनतत्परा ।
स्नेहप्रस्नवनिर्भिन्नम् उद्वहन्ती स्तनद्वयम् ॥
इयं त्रियामा शतयामधारिणी सुधाकरादग्निरुदेति सर्वतः ।
तनोति तापं मृदुचन्दनानिलो विधौ विरुद्धे हि विपत् पदे पदे ॥
इयं त्वभिन्नमर्यादैः स्वनुशिष्टैः कृतात्मभिः ।
सर्वंसहैरुपायज्ञैर् अमूढैरेव धार्यते ॥
इयं धत्ते धीरे मलयजसमीरे न च मुदं न पद्मानां वृन्दे ललितमकरन्देऽपि रमते ।
न वा सा सानन्दा भवति नवकुन्दावलिकुले तदेतस्या बाधाहरमपि समाधानमिह किम् ॥
इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः समन्तादाकीर्णा विषविषमबाणप्रणयिभिः ।
तरोरस्य स्कन्धे गमय समयं कीर निभृतं न वाणी कल्याणी तदिह मुखमुद्रैव शरणम् ॥
इयं प्रीतिर्वल्लीहृदयभुवि दैवात् समुदिता तथा यत्नाद् रक्ष्या प्रकृतिमृदुलापायबहुला ।
यथा नैनां स्फीतां पिशुनजनदुर्वाक्यदहनो दहत्यन्तः शोषं व्रजति न पुनः सौहृदनिधेः ॥
इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
कामं धीरस्वभावेयं स्त्रीस्वभावस् तु कातरः ॥
इयं बाला मां प्रत्यनवरतमिन्दीवरदल- प्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर- ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥
इयं बाला वल्ली मृदुकिसलयं तापविलयं घनच्छायं शालं नवमतिविशालं परिगता ।
परंत्वस्याभ्यन्तर्गरललवभस्मीकृतवनं भुजंगं प्रोत्तुङ्गं कथमिव वराकी कलयतु ॥
इयं भुजगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदखञ्जनालंकृता ।
फलद्वयभरानता विलसिता नवैः पल्लवैर् विलोचनपथं गता भवति कापि हैमी लता ॥
इयं मयि प्रोषित एव संगता हिमत्विषाभूत् कृतमण्डना सती ।
इतीर्ष्ययेव द्रुतमच्छिनद् रुषा विचित्रताराभरणानि भास्करः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0