भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5966-5985

5966

इदानीं तु मया ज्ञातं त्यागान् नास्ति परं सुखम् ।
नास्ति विद्यासमं चक्षुर् नास्ति चक्षुःसमं बलम् ॥

5967

इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः शिखानामाबन्धः स्फुरति शुकचञ्चूपुटनिभः ।
ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं समन्तान् निर्याति स्फुटसुभगरागं किसलयम् ॥

5968

इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् ।
स्फुरल्लोमश्यामच्छगलशिशुकर्णप्रतिसम- च्छदाग्राभिस् त्वग्भिर्वलयितकरीरास् तटभुवः ॥

5969

इदानीं सन्तु काव्यानि बहूनि जगतीतले ।
यदादर्शमयं काव्यम् आद्यं तत् तु तदेव हा ॥

5970

इदानीमङ्गमक्षालि रचितं चानुलेपनम् ।
इदानीमेव ते कृष्ण धूलीधूसरितं वपुः ॥

5971

इदानीमर्घन्ति प्रथमकलमच्छेदमुदिता नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः ।
उदञ्चद्दोर्वल्लीरणितवलयाभिर्युवतिभिर् गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः ॥

5972

इनः स एव सेव्यो यः स्वालोकेन सुधामुचा ।
द्विजेन्द्रमण्डलं क्षीणं समग्रयति संपदा ॥

5973

इन्दिन्दिरैर्निर्भरगर्भमीषद्- उन्मेषवच्चम्पकपुष्पमासीत् ।
हिरण्मयं शासनलेखहेतोः सज्जं मषीभाण्डमिव स्मरस्य ॥

5974

इन्दिन्दिरो मरन्दे विमुखो यदि किं नु मधुनि माहात्म्यम् ।
रसिको वाञ्छति नो चेत् रागाधरबिम्बमस्य को भूमा (?) ॥

5975

इन्दीवरं लोचनयोस् तुलायै निर्माय यत्नेन विधिः कदाचित् ।
अतुल्यतां वीक्ष्य ततो रजांसि निक्षिप्य चिक्षेप स पङ्कमध्ये ॥

5976

इन्दीवरदलश्यामम् इन्दिरानन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥

5977

इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
अन्योन्यशोभापरिवृद्धये वां योगस् तडित्तोयदयोरिवास्तु ॥

5978

इन्दीवरस्यान्तरमेतदस्या नेत्रोत्पलस्यापि यतो हिमांशोः ।
त्विषोऽपि नैकं सहते मुखाख्यम् आक्रम्य तस्थावपरं शशाङ्कम् ॥

5979

इन्दीवराक्षि तव तीव्रकटाक्षबाण- पातव्रणे द्वितयमौषधमेव मन्ये ।
एकं तवाधरसुधारसपानमन्यद् उत्तुङ्गपीनकुचकुङ्कुमपङ्कलेपः ॥

5980

इन्दीवराक्ष्याः स्फुटविद्रुमोष्ठ्याः संकेतमुद्दिश्य वने चरन्त्याः ।
चौरैः समस्ताभरणानि हृत्वा नासामणिर्नोऽपहृतः किमेतत् ॥

5981

इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः ॥

5982

इन्दीवरोदरसहोदरमेदुरश्रीर् वासो द्रवत्कनकवृन्दनिभं दधानः ।
आमुक्तमौक्तिकमनोहरहारवक्षाः कोऽयं युवा जगदनङ्गमयं करोति ॥

5983

इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् ।
माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं चेतोवृत्तिरियं सदा नृपवर त्वां द्रष्टुमुत्कण्ठते ॥

5984

इन्दुं तण्डुलखण्डमण्डलरुचिं नित्योदितं जातुचिद् दर्शे मेघघरट्टघट्टनगलद्देहं विधत्ते विधिः ।
नूनं लोकहितेच्छया किरति यत् संतर्पणं सर्वतः शुभ्रादभ्रविशिष्टपिष्टरुचिरंभूमौ तुषारं दिवः ॥

5985

इन्दुं निन्दति चक्रवाकयुगलं भासां निधिं कौशिकः स्वादुक्षीरमरोचकी सुकृतिनं पापी जडः पण्डितम् ।
त्यक्तं सर्वजनैः खलः कटुवचा ग्राम्यः पुमान् नागरं कः पैतामहगोलकेऽत्र निखिलैः संमानितो वर्तते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc