महासुभाषितसंग्रह · श्लोक 5986-6005
इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेक्षते हारं द्वेष्टि सिताब्जमुज्झति बिसस्तोमं निगृह्णाति च ।
श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च त्वत्कीर्तिस् त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा ॥
इन्दुं निन्दति चन्दनं न सहते विद्वेष्टि पङ्केरुहं हारं भारमवैति नैव कुरुते कर्पूरपूरे मनः ।
स्वर्गङ्गामवगाहते हिमगिरिं गाढं समालिङ्गते यत्कीर्तिर्विरहातुरेव न मनागेकत्र विश्राम्यति ॥
इन्दुं निन्दति तस्करो गृहपतिं जारो सुशीलं खलः साध्वीमप्यसती कुलीनमकुलो जह्याज् जरन्तं युवा ।
विद्यावन्तमनक्षरो धनपतिं नीचश् च रूपोज्ज्वलं वैरूप्येण हतः प्रबुद्धमबुधोत्कृष्टं निकृष्टो जनः ॥
इन्दुं निन्दति पद्मखण्डकदलीतल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे ।
किं वान्यत् तव विप्रयोगशिखिना सा दह्यमाना मुहुस् त्वामन्तर्हृदयस्थितं दवभयान् नेत्राम्बुभिः सिञ्चति ॥
इन्दुं निन्दतु नाम वाथ नलिनीं निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमाहानिर्न वा दुर्यशः ।
एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यज्ज्योत्स्नासु चिरं चकोरपरिषच् चञ्चूपुटं न्यस्यति ॥
इन्दुं मुखाद् बहुतृणं तव यद् गृणन्ति नैनं मृगस् त्यजति तन् मृगतृष्णयैव ।
अत्येति मोहमहिमा न हिमांशुबिम्ब- लक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ॥
इन्दुं वेत्ति दिवाकरं मलयजं दावानलं मन्यते जानात्यम्बुजमुल्मुकं कलयति प्रालेयतल्पं चिताम् ।
हाराङ्गारकदर्थितेन मनसा सृष्टिं समस्तामिमां संप्रत्यग्निमयी न वेत्ति सुभगा त्यक्ता वराकी त्वया ॥
इन्दुः किं क्व कलङ्कः सरसिजमेतत् किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर् मुखमिति हरिणाक्षि निश्चितं परतः ॥
इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।
अन्धं समग्रमपि कीटमणे भविष्यत्य् उन्मेषमेष्यति भवानपि दुरमेतत् ॥
इन्दुप्रभारसविदं विहगं विहाय कीरानने स्फुरसि भारति का रतिस् ते ।
आद्यं यदि श्रयसि जल्पतु कौमुदीनां गोविन्दराजवचसां च विशेषमेषः ॥
इन्दुबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम् ।
वदनं तव तन्वङ्गि विमृशद्भिर्विभाव्यते ॥
इन्दुभास्करयोर्यत्र नभःसंचारखिन्नयोः ।
पताकाः पवनाधूताः भजन्ते तालवृन्तताम् ॥
इन्दुमिन्दुमुखि लोकय लोकं भानुभानुभिरमुं परितप्तम् ।
वीजितुं रजनिहस्तगृहीतं तालवृन्तमिव नालविहीनम् ॥
इन्दुमिन्द्रदिगसूत सरस्वान् उत्तरङ्गभुजराजिरनृत्यत् ।
उज्जहर्ष झषकेतुरवापुः षट्पदाः कुमुदबन्धनमोक्षम् ॥
इन्दुमुखी कुमुदाक्षी रम्भोरू कमलचारुकरचरणा ।
अमृतद्रवलावण्या हृदयगता देवि किं दहसि ॥
इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष पयसो विलोक्यते ।
नन्विदं विजयते मृगीदृशः श्यामकोमलकपोलमाननम् ॥
इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
सम्वादः प्रणवेन यस्य दलता कायैकतायां तयोर् ऊर्ध्वद्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च ॥
इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः ।
स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत् सुप्यते तत् किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥
इन्दुर्यद्युदयाद्रिमूर्ध्नि न भवत्यद्यापि तन् मा स्म भून् नासीरेऽपि तमःसमुच्चयममूरुन्मूलयन्ति त्विषः ।
अप्यक्ष्णोर्मुदमुद्गिरन्ति कुमुदैरामोदयन्ते दिशः संप्रत्यूर्ध्वमसौ तु लाञ्छनमभिव्यङ्क्तुं प्रकाशिष्यते ॥
इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।
कार्कश्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सुन्दर्याः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ॥
इन्दुव्रतसहस्रं तु चरेद् यः कायशोधनम् ।
पिबेद् यश् चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0