महासुभाषितसंग्रह · श्लोक 5946-5965
इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
किमुत मलयवातोन्मूलितापाण्डुपत्रैर् उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ॥
इदमस्खलितं धारय वारय परुषाक्षरा वाचः ।
एकः सकलजनानां जगति रिपुः परुषवाक् पुरुषः ॥
इदमहं करुणामृतसागरं शशिकिशोरशिरोमणिमर्थये ।
व्रजतु जन्मनि जन्मनि मे वपुर् भवदुपासनसाधनतामिति ॥
इदमाभाति गगने भिन्दानं संततं तमः ।
अमन्दनयनानन्दकरं मण्डलमैन्दवम् ॥
इदमिदमिति भूरुहां प्रसूनैर् मुहुरतिलोभयता पुरःपुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥
इदमिदमिति सम्यक् कर्मणा योजनीयं नियतमिति विचिन्त्य प्रापयेदीहमानः ।
सुनयपिहितरन्ध्रः प्राकृतो यस्य वर्गः क्षितिपतिरुपभुङ्क्ते स त्रिवर्गं चिराय ॥
इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥
इदमुद्दिश्य वयस्याः स्वसमीहितदैवतं नमत ।
यमुनैव जानुदघ्नी भवतु न वा नाविकोऽस्त्वपरः ॥
इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाहाच्छादिना वल्कलेन ।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं पाण्दुपत्रोदरेण ॥
इदमुभयभित्तिसंतत- हारगुणान्तर्गतैककुचमुकुलम् ।
गुटिकाधनुरिव बाला- वपुः स्मरः श्रयति कुतुतेन ॥
इदमेतत् करिष्यामि तत एतद् भविष्यति ।
संकल्पः क्रियते योऽयं न तं मृत्युः प्रतीक्षते ॥
इदमेव कलेरस्य मदविस्फूर्जितं महत् ।
यन् मे मनोरथावाप्तिः न रामभजनादपि ॥
इदमेव नरेन्द्राणां स्वर्गद्वारमनर्गलम् ।
यदात्मनः प्रतिज्ञा च प्रजा च परिपाल्यते ॥
इदमेव परं मौर्ख्यम् उपायैस्त्रिभिरुज्झितम् ।
पराक्रमन्ते युद्धेषु सममेवोभये भटाः ॥
इदमेव महद् धैर्यं धीराणां सुतपस्विनाम् ।
विघ्नवन्त्यपि संप्राप्य यद् विघ्नैर्न विहन्यते ॥
इदमेव हि जन्मफलं जीवितफलमेतदेव यत् पुंसाम् ।
लटहनितम्बवतीजन- संभोगसुखेन याति तारुण्यम् ॥
इदमेव हि निर्णीतं पैशुन्याद् दुःखसंगमः ।
अन्यार्थं खनतो गर्तं कूपे पातः सुनिश्चितः ॥
इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि ।
इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ॥
इदमेव हि पाण्डित्यम् इयमेव कुलीनता ।
अयमेव परो धर्म आयादल्पतरो व्ययः ॥
इदानीं तीव्राभिर्दहन इव भाभिः परिगतो ममाश्चर्यं सूर्यः किमु सखि रजन्यामुदयते ।
अयं मुग्धे चन्द्रः किमिति मयि तापं प्रकटयत्य् अनाथानां बाले किमिह विपरीतं न भवति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0