भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5726-5745

5726

आहूतो मलयाचलात् प्रचलितो मौहुर्तिको मारुतो नेदिष्ठाः पथि सन्ति कोकिलगणा गीते प्रतिष्ठाभृतः ।
आप्ताभिः प्रतिवेशिनीभिरभितः संत्यज्य कुन्दालयं सोष्यन्ती सहकारसंततिरलिश्रेणीभिरावेष्ट्यते ॥

5727

आहूतो वाप्यनाहूतो यो राज्ञां द्वारि तिष्ठति ।
स वै राज्यश्रियं भुङ्क्ते नावमानी कदाचन ॥

5728

आहूतो हालिकेनाश्रुतमिव वचनं तस्य कृत्वा क्षणैकं तिष्ठासुस्तब्धरोमा कथमपि विटपं निःसमीरं विहाय ।
दोर्भ्यामावृत्य वक्षःस्थलमलसगतिर्दीनपादप्रचारः शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रमेति ॥

5729

आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ।
मेने प्रजापतिर्ग्राह्याम् अपि दुष्कृतकर्मणः ॥

5730

आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम् ।
अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥

5731

आहृत्य रक्ष्यमाणापि यत्नेनान्तर्विरागिणी ।
असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥

5732

आह्निकोत्तापदग्धानां त्रयाणां जगतां बत ।
तपनार्चिषि शान्ते तद् भस्मेदं तिमिरं तु न ॥

5733

आह्लादयत्वेष खरैर्नखाग्रैर् दैतेयवक्षःखनिमुत्खनन् वः ।
प्रह्लादहृद्यं हृदये द्वितीयम् अन्वेष्टुमिच्छन्निव सूनुरत्नम् ॥

5734

आह्लादहेतुनिरवद्यशरीरयष्टि- लावण्यकान्तिकलुषीकरणेन तासाम् ।
आसीत् कुशेशयदृशामयथार्थतैव पर्यस्तभास्वररुचामपि भूषणानाम् ॥

5735

आह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः प्रायः कार्यं किमपि न कलौ कुर्वते के परेषाम् ।
पूर्णं चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः केनोदन्याजनितमसमं कष्टमाप्नोति लोकः ॥

5736

इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ॥

5737

इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली ।
केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिराधारमाराद् अच्छः कच्छेषु पङ्कः सुखयति सरितामातपादुक्षपालम् ॥

5738

इक्षुदण्दास्तिलाः शूद्राः कान्ता हेम च मेदिनी ।
चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम् ॥

5739

इक्षुरापः पयो मूलं ताम्बूलं फलमौषधम् ।
भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ॥

5740

इक्षुर्धन्व शराः प्रसूनविततिर्भृङ्गावली सिञ्जिनी यस्याज्ञावशवर्तिनः प्रमनसो निर्विष्टराष्ट्रादयः ।
यद्बाणाभिहता विरञ्चिमुरजिन्मृत्युंजयेन्द्रादयो व्याप्ताशेषमुखा इव त्रिभुवनं पायादजेयः स्मरः ॥

5741

इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्च हे सुतनु ।
भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥

5742

इक्षोरग्रात् क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
तद्वत् सज्जनमैत्री विपरीतानां तु विपरीता ॥
इक्षो रसं यथादाय कूर्चकस् त्यज्यते जनैः ।
धर्मसारं तथादाय देहं त्यजति पण्डितः ॥

5743

इक्षोर्विकारा मतयः कवीनां गवां रसो बालकचेष्टितानि ।
ताम्बूलमग्र्यं युवतेः कटाक्षा एतान्यहो शक्र न सन्ति नाके ॥

5744

इङ्गालसप्तार्चिरिव ज्वलित्वा सर्वं दिनं चण्डरुचिः शशाम ।
तदीयभस्मेव नभोहसन्ती विभ्राजमानं तुहिनांशुबिम्बम् ॥

5745

इङ्गितज्ञास् तु मगधाः प्रेक्षितज्ञास् तु कोसलाः ।
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दक्षिणापथाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc