भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5706-5725

5706

आहारार्थं कर्म कुर्यादनिन्द्यं कुर्यात् तं च प्राणसंधारणार्थम् ।
प्राणा धार्यास् तत्त्वविज्ञानहेतोस् तत्त्वं ज्ञेयं येन भूयो न जन्म ॥

5707

आहारे च भवेद् रोगी नष्टो गर्भश्च मैथुने ।
निद्रायां ह्रियते लक्ष्मीश् चिन्तायां मरणं ध्रुवम् ॥

5708

आहारे बडवानलश्च शयने यः कुम्भकर्णायते संदेशे बधिरः पलायनविधौ सिंहः शृगालो रणे ।
अन्धो वस्तुनिरीक्षणेऽथ गमने खञ्जः पटुः क्रन्दने भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्तमः सेवकः ॥

5709

आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद् ब्रूयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि ॥

5710

आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।
धनं मैत्रीकरं दाने चादाने शत्रुकारणम् ॥

5711

आहारे शुचिता ध्वनौ मधुरता नीडे पराधीनता बन्धौ निर्ममता वने रसिकता वाचालता माधवे ।
यसैते गुणराशयः पिकवरं त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥

5712

आहारो गरलं तृतीयमलिके चक्षुः कपालं करे वासः कुञ्जरचर्म भस्मनि रतिर्भूषा भुजङ्गाधिपः ।
जन्मालक्ष्यमसाक्षिकं कुलमविज्ञाता च जातिः कथं सेव्योऽस्माभिरसौ पिशाचपरिषद्भर्ता हताः स्मो वयम् ॥

5713

आहारो गरलायते प्रतिदिनं हारोऽपि भारायते चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते ।
आवासो विपिनायते मलयजालेपः स्फुलिङ्गायते हा हन्त प्रियविप्रयोगसमयः संहारकालायते ॥

5174

आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामाश् चाष्टगुणः स्मृतः ॥

5715

आहितमुक्ताहार्यः सम्यक् सकलप्रयोगसम्पत्त्या ।
भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥

5716

आहिते तव निःशाने स्फुटितं रिपुहृद्घटैः ।
गलिते तत्प्रियानेत्रे राजंश् चित्रमिदं महत् ॥

5717

आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।
आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ॥

5718

आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।
... ... ... ... ... ... ॥

5719

आहुः सूक्ष्मतरं किंचिद् अमात्यपरिरक्षणम् ।
सूक्ष्मात् सूक्ष्मतरं तेभ्यो यदात्मपरिरक्षणम् ॥

5720

आहुत्याप्यायते सूर्यः सूर्याद् वृष्टिरथौषधिः ।
तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ॥

5721

आहूतः परितो दिगन्तगतिभिः शाखाभराडम्बरैः किं रे जाल्म जवेन शाल्मलिफलप्रत्याशया धावसि ।
तस्मिन्न् एकपदे भिदेलिमफलव्यालोलतूलोत्करैर् अध्वानोऽपि निमीलिताक्षमटता न प्रेक्षणीयाः पुरः ॥

5722

आहूतस्याभिषेकाय निसृष्टस्य वनाय च ।
न मया लक्षितस् तस्य स्वल्पोऽप्याकारविभ्रमः ॥

5723

आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता क्षीबः प्रेष्यजनः कथं कुलबधूरेकाकिनी यास्यति ।
वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥

5724

आहूतेषु विहंगमेषु मशको नायान् पुरो वार्यते मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् ।
खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥

5725

आहूतोऽपि सहायैर् एमीत्युक्त्वा विमुक्तनिद्रोऽपि ।
आगन्तुकोऽपि पथिकः शैथिल्यं नैव विजहाति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc