भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5746-5765

5746

इङ्गिताकारचेष्टाभिः परचित्तप्रवेदिनः ।
आप्ताः सुशीघ्रगा दूता वाग्मिनो मितभाषिणः ॥

5747

इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ।
शूरश्च कृतविद्यश्च न च मानी विमत्सरः ॥

5748

इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः ।
अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ॥

5749

इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् ।
भक्ततां च परिचर्ययानिशं साधिकाधिकवशं व्यधत्त तम् ॥

5750

इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ॥

5751

इच्छति मानी मरणं न च गच्छति वैरिणः शरणम् ।
मानक्षरणं मरणं मानप्राणस्य केवलं कृतिनः ॥

5752

इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुम् ।
कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम् ॥

5753

इच्छति शती सहस्रं सहस्री लक्षमीहते ।
लक्षाधिपस् ततो राज्यं राज्याच्च स्वर्गमीहते ॥

5754

इच्छन्ति केचिन् नरकेषु वासं नेच्छन्ति केचिन् नरकेषु वासम् ।
श्रेयो हि तस्मान् नरकं विशिष्टं न गर्भवासात् परमं हि दुःखम् ॥

5755

इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस् तुल्यकुलस्य लक्ष्मीम् ।
नमन्ति शत्रून् न च बन्धुवृद्धिं संतप्यमानैर्हृदयैः सहन्ते ॥

5756

इच्छां सुन्दरपाण्ड्य उन्नतिमतिं बिभ्रत् स्वया संज्ञया निष्पाद्याभ्यवहारवारयुगलं निष्कम्पसंपत्तिकम् ।
संपूर्णं विदधे गभीरमुदरं रङ्गेशितुः शार्ङ्गिणो यस्याभूद् भुवनैश् चतुर्दशभिरप्यापूरणं दुर्लभम् ॥

5757

इच्छेच् चेद् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
वाग्वादमर्थसंबन्धं तत्पत्नीपरिभाषणम् ॥

5758

इच्छेत् परमनुसर्तुं प्रतिमासंदर्शनेन विशदरुचिः ।
अनवाप्य येनयोगं भवतो हृदयेपरं निधीयेत ॥

5759

इच्छेद् यस् तु सुखं निवस्तुमवनौ गच्छेत् स राज्ञः सभां कल्याणीं गिरमेव संसदि वदेत् कार्यं विदध्यात् कृती ।
अक्लेशाद् धनमर्जयेदधिपतेरावर्जयेद् वल्लभान् कुर्वीतोपकृतिं जनस्य जनयेत् कस्यापि नापक्रियाम् ॥

5760

इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥

5761

इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥

5762

तत्र पूर्वश् चतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरस् तु चतुर्वर्गो महात्मन्येव तिष्ठति ॥

5763

इडया संचरन् वायुः सौम्ये कार्ये शुभः स्मृतः ।
पिङ्गलायां तथा दीप्ते द्वयोः क्वापि न शोभनः ॥

5764

इडा च पिङ्गला चैव सुषुम्णा च सरस्वती ।
गान्धारी हस्तिजिह्वा च पूषा चैव निगद्यते ॥

5765

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी मता ।
एताः प्राणवहा ज्ञेयाः प्रधाना दश नाडिकाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc