भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4985-5004

4985

आबाल्याधिगमान् मयैव गमितः कोटिं परामुन्नतेर् अस्मत्संकथयैव पार्थिवसुतः संप्रत्यसौ लज्जते ।
इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽम्बुधेर् यातस् तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥

4986

आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।
उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥

4987

आब्रह्मकीटान्तमिदं निबद्धं पुंस्त्रीप्रयोगेन जगत् समस्तम् ।
व्रीडात्र का यत्र चतुर्मुखत्वम् ईशोऽपि लोभाद् गमितो युवत्याः ॥

4988

आभङ्गुराग्रबहुगुण- दीर्घास्वादप्रदा प्रियादृष्टिः ।
कर्षति मनो मदीयं ह्रदमीनं बडिशरज्जुरिव ॥

4989

आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
उपमानस्यापि सखे प्रत्युपमानं वपुस् तस्याः ॥

4990

आभाति चन्द्ररहिता न कदापि रात्रिश् चन्द्रोऽपि रात्रिरहितो गतकान्तिरेव ।
किं कारणं यदनयोः प्रतिमासमेको जातो निरन्तरतया परिरम्भयोगः ॥

4991

आभाति धूसरतरं तिमिरं पुरस्ताद् अन्तःस्फुरद्विरलतारकभारमेतत् ।
दग्धुं वियोगिविपिनं सितरश्मिवह्नेर् धूमो ज्वलिष्यत इवानुगतस्फुलिङ्गः ॥

4992

आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा ।
अभिनववसन्तसङ्गाद् आविर्मुकुलेव बालचूतलता ॥

4993

आभाति रोमराजिश् चलदलिकुलकोमला विशालाक्ष्याः ।
नाभीविवरान्तर्गत- मदनानलधूमलेखेव ॥

4994

आभाति शोभातिशयप्रपञ्चाद् एणीदृशोऽस्या रमणीयशोभा ।
वेणी लसत्कुन्तलधोरणीनां श्रेणीव किं चारुहरिन्मणीनाम् ॥

4995

आभात्येतद् द्विचन्द्रं वियदपि निखिलं हन्तिनस्तु त्रिदन्ता गङ्गापूरश्चतुर्धा प्रविलसति लसत्पञ्चदन्तः करीन्द्रः ।
षड्वक्त्रः (सप्तवक्त्रः) परिणमति तथा षङ्गुणाः सप्तसंख्याः शङ्के त्वत्कीर्तिमूर्त्या नवमिव जगदालक्ष्यते क्षोणिपाल ॥

4996

आभिचारिकहोमैस्तु मन्त्रैः षट्कर्मसाधकः ।
यन्त्रलेखनकैरुग्रैर् उपांशुजपनादिभिः ॥

4997

आभिमुख्यदशामात्राद् आदर्श इव सज्जनः ।
शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥

4998

आभीरदारकमुदञ्चितकिंकिणीकम् आताम्रपाणिचरणं पुरुषं पुराणम् ।
मञ्जीरमञ्जुमरुणाधरमम्बुजाक्षम् अद्वैतचिन्मयमनादिमनन्तमीडे ॥

4999

आभीरनार्याः करमादधानो न शङ्कसे माधव किं ब्रवीषि ।
पल्लीपतिर् बल्लववल्लभायाः करग्रहे किं विदधीत शङ्काम् ॥

5000

आभीरादिगिरः काव्येष्व् अप्रभ्रंश इति स्मृताः ।
शास्त्रेषु संस्कृतादन्यद् अपभ्रंशतयोदितम् ॥

5001

आभुग्नाङ्गुलिपल्लवौ कचभरे व्यापारयन्ती करौ बन्धोत्कर्षनिबद्धमानसतया शून्यां दधाना दृशम् ।
बाहूत्क्षेपसमुन्नते स्तनतटेपर्यस्तचीनांशुका ह्रीसङ्कोचितबाहुमूलसुभगं बध्नाति जूटिं वधूः ॥

5002

आभुज्येन्द्रदिशं कुबेरककुभं स्वाश्लिष्य गाढं करैर् आचुम्ब्याम्बुजिनीं समं कुमुदिनीमुल्लास्य तां दक्षिणाम् ।
एषोऽद्यापि परारुचिर्विजयते रात्रीश्वरो द्रागिति क्रोधादेव लयं जगाम चतुरस्तारागणः सर्वतः ॥

5003

आभोगः स्तनयोर्महत्यतिमहान् मुक्तास्रजं भासुरो माहात्म्यावहितप्रभूतसुमनोबाणोऽपि तेऽन्तः स्थितः ।
भालं स्वच्छविरोचनं बलिरसावप्यास्त एवोदरे रोम्णां विक्रियया युवत्वभवया विन्ध्यावली वर्तते ॥

5004

आभोगभूषणवती कुचकुम्भसंपद् अन्तर्विकारमधुराणि विलोकितानि ।
अङ्गान्यनङ्गपिशुनानि कुलाङ्गनानां धीरात्मनामपि मनः परितापयन्ति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc