भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 5005-5024

5005

आभोगश्चैकखण्डः स्याद् द्वितीयं चोच्चखण्डकम् ।
तुल्यनामाङ्कितं चैतद् इति मध्यमलक्षणम् ॥

5006

आभोगिनः किमपि सम्प्रति वासरान्ते संपन्नशालिखलपल्लवितोपशल्याः ।
ग्रामास्तुषारभरबन्धुरगोमयाग्नि- धूमावलीवलयमेखलिनो हरन्ति ॥

5007

आभोगिनेत्रपरिवर्तनविभ्रमेण मूर्त्या नितम्बवलनाकुलतां वहन्त्या ।
यस्याशनैरविरलोत्कलिकाकलाप- पर्याकुलं हृदयमम्बुनिधिर्ममन्थ ॥

5008

आभोगिनौ मण्डलिनौ तत्क्षणोन्मुक्तकञ्चुकौ ।
वरमाशीविषौ स्पृष्टौ न तु तन्व्याः पयोधरौ ॥

5009

आभोगे च पदैकं स्यात् किंचिदुच्चं द्वितीयकम् ।
प्रभुनामाङ्कितं चैतत् कनिष्ठस्येति लक्षणम् ॥

5010

आभ्यन्तराद् भयं रक्षन् सुरक्षेद् बाह्यतो भयम् ।
आभ्यन्तराद् भयं जातं सद्यो मूलं निकृन्तति ॥

5011

आभ्यां कुचाभ्यामिभकुम्भयोः श्रीर् आदीयतेऽसावनयोर्न ताभ्याम् ।
भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥

5012

आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् ।
जानीयात् स भवेद् वैद्यः शेषस् तस्करवृत्तयः ॥

5013

आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्धूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥

5014

आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥

5015

आ मध्याह्नं नदीवासः समाजे देवतार्चनम् ।
सततं शुचिवेषश्चेत्य् एतद् दम्भस्य जीवितम् ॥

5016

आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः ।
स्वयमुक्तसाधुवादैर् अन्तरयति गायनो गीतम् ॥

5017

आमन्त्रणा सुरभिणा मरुता कृतादौ दत्तं फलं च पुरतः कटुकण्टकाख्यम् ।
भग्नं मुखं विमुखता च ततः शुकानां राज्ञां पुरः पनस कीर्तिरियं तवैव ॥

5018

आमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः ।
पत्युत्साहयुता नार्यः अहं कृष्ण रणोत्सवः ॥

5019

आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये ।
शपथः कर्कशोदर्कः सत्यं सत्योऽपि दैवतः ॥

5020

आमन्थिनीकलश एष सदुग्धसिन्धुर् वेत्रं च वासुकिरयं गिरिरेष मन्थः ।
संप्रत्युपोढमदमन्थरबाहुदण्ड- कण्डूयनावसर एव सुरासुराणाम् ॥

5021

आमयार्तिरिपुत्रास क्षुदादौ दृष्टवैकृतान् ।
लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ॥

5022

आ मरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥

5023

आमर्दयति पाणिभ्यां कान्ते कमलकोरके ।
सिन्दूरतिलके बाला कस्तूरीतिलकं व्यधात् ॥

5024

आमर्द्य वक्षोजयुगं निपीय बिम्बाधरं मे कबरीं व्युदस्य ।
नीवीसमासन्नकरो निरुद्धः स्वप्ने वयस्योऽद्य रहस्यचेष्टः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc