भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4965-4984

4965

आपो विमुक्ताः क्वचिद् आप एव क्वचिन् न किंचिद् गरलं क्वचिच्च ।
यस्मिन् विमुक्ताः प्रभवन्ति मुक्ताः पयोद तस्मिन् विमुखः कुतस् त्वम् ॥

4966

आपोशनं चासनं च तैलाभ्यङ्गं तथैव च ।
स्वयं करकृतं चैव आयुःश्रीपुत्रनाशनम् ॥

4967

आपोशनमकृत्वा तु यश्चान्नं परिमर्दयेत् ।
मर्दितं चापि तच्चान्नम् अमेध्यं मनुरब्रवीत् ॥

4968

आप्तवाक्यमनादृत्य दर्पेणाचरितं यदि ।
फलितं विपरीतं तत् का तत्र परिदेवना ॥

4969

आप्तस्य चाप्तस्तस्यातस् तस्याप्याप्तोऽस्ति कश्चन ।
सुगुप्तमपि मन्त्रं हि भिनत्त्याप्तपरंपरा ॥

4970

आप्ताप्तसंततेर्मन्त्रं संरक्षेत् तत्परस्तु सः ।
अरक्ष्यमाणं मन्त्रं हि भिनत्त्याप्तपरंपरा ॥

4971

आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टम् ।
प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ॥

4972

आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि ।
विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥

4973

आ प्रातर्घनतृष्णया कवलितं प्रोद्दण्डचण्डातपैर् दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितम् ।
प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं त्वत्तः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ॥

4974

आबद्धकृत्रिमसटाजटिलांसभित्तिर् आरोपितो यदि पदं मृगवैरिणः श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥

4975

आबद्धपद्ममुकुलाञ्जलि याचितो माम् उत्सृज्य संप्रति गतः कथमंशुमाली ।
अन्तर्निरुद्धमधुपक्वणितैरितीव स्वप्नायते स्म नलिनी निशि लब्धनिद्रा ॥

4976

आबद्धभीमभृकुटीस्थपुटं ललाटं बिभ्रत्पराङ्मुखरिपोर्विधुताधरोष्ठः ।
आत्मैव संगरमुखे निजमण्डलाग्र- च्छायाछलादभिमुखस्तव देव जातः ॥

4977

आबद्धातिकठोरै रश्मिभरैः पीडिताश्मचयैः ।
आमर्दितापि चरणैः परमिह मधुरैव चूर्णितापि सिता ॥

4978

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः ।
दैवे परुषकारे च परं ताभ्यां न विद्यते ॥

4979

आबद्ध्य बाहुयुगलं भवनान्तरालाद् दूरीकृतोऽपि परिसुप्तजने निशीथे ।
आगत्य मन्दमनुगृह्य पदौ व्यलोकि धृष्टो मयाप्यतिभयात् सुरते सहासः ॥

4980

आबध्नत् परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाद् बहिः कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् ।
तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥

4981

आबाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर् भूमध्ये समुपागता तदपि ते विख्यायते यः पतिः ।
वृद्धा नास्य गृहे वसामि सुचिरं तिष्ठन् स्थिरात्रेति तन्- मात्सर्यादिव राम भूप भवतः कीर्तिर्दिगन्तं गता ॥

4982

आ बाल्यं भवता समीर कतिधा सार्धं मृणालीदलं भुक्तं केलिकथामृतैरपि तथा नीतं रहः सादरम् ।
चित्तान्दोलनलालनैर्मृगदृशां वक्षःस्थलास्फालनैर् भूयः सप्रति मां विना तव मनो रन्तुं कथं मोदते ॥

4983

आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली- स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः ।
हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेऽप्यवस्थान्तरे गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः ॥

4984

आ बाल्याद् देवबालाः सुरवरसदने किंनरीगीयमानं यन्नामाकर्ण्य कर्णेऽमरगुरुवचनोद्गीतगाथानिबद्धम् ।
दानौदार्याढ्यशौर्याद्वयविमलगुणं सर्वभोगैकसारं भर्तारं कामयन्त्यो हरिहरगृहिणीपादमाराधयन्ति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc