महासुभाषितसंग्रह · श्लोक 4925-4944
आपद्यपि दुरन्तायां नैव गन्तव्यमक्रमे ।
राहुरप्यक्रमेणैव पिबन्नप्यमृतं मृतः ॥
आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
अपृष्टोऽपि हितान्वेषी ब्रूयात् कल्याणभाषितम् ॥
आपन्नमहितं दृष्ट्वा न दूयेत कदाचन ।
तदुन्मूलनकालोऽयं विधिना ननु सूचितः ॥
आपन्नया सन्नगिरा वेपमानोरुमूलया ।
जातो मे जरया सार्धं नववध्वेव संगमः ॥
आपन्नवत्सल जगज्जनतैकबन्धो विद्वन्मरालकमलाकर रामचन्द्र ।
जन्मादिकर्मविधुरैः सुमनश्चकोरैर् आचम्यतां तव यशः शरदां सहस्रम् ॥
आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः ।
न तरत्यापदं कश्चिद् योऽत्र मित्रविवर्जितः ॥
आपन्नोऽस्मि शरण्योऽस्मि सर्वावस्थासु सर्वदा ।
भगवंस्त्वां प्रपन्नोऽस्मि रक्ष मां शरणागतम् ॥
आपन्मूलं खलु युवतयस् तन्निमित्तोऽवमानस् तासां यावत् सलिललहरीभङ्गुरः पक्षपातः ।
अप्येवं भो परिणतशरच्चन्द्रबिम्बाभिरामं दूरीकर्तुं वदनकमलं नालमस्मत्प्रियायाः ॥
आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानाम् आत्मन्यप्रत्ययं चेतः ॥
आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य ।
लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥
आपाटलाधरमधीरविलोलनेत्रम् आमोदनिर्भरितमद्भुतकान्तिपूरम् ।
आविस्मितामृतमनुस्मृतिलोभनीयम् आमुद्रिताननमहो मधुरं मुरारेः ॥
आपाटलैः प्रथममङ्कुरितैर्मयूखैर् अह्नां पतिः प्रथमशैलविहारिणीनाम् ।
सोऽयं करोति सुरपुङ्गवसुन्दरीणां कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीम् ॥
आपाणिग्रहणादतिप्रणयिनी कण्ठस्थिताहं विभोः सर्वैरेव हरिप्रियेति कमला सोऽप्युच्यते माधवः ।
नो तेनापि दुनोमि मत्सुतगणाः पद्मासुतस्यानुगा वाण्येत्याधिनिवारणाय सततं संगीयते वीणया ॥
आपाण्डु पीनकठिनं वर्तुलं सुमनोहरम् ।
करैराकृष्यतेऽत्यर्थं किं वृद्धैरपि सस्पृहम् ॥
आपाण्डुराः शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषादः ।
एणीदृशो युवतयः पथि मां विलोक्य तातेति भाषणपराः खलु वज्रपातः ॥
आपाण्डुरा च मृत्स्ना गोरसवर्णश्च भवति पाषाणः ।
पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥
आपातमात्ररमणीयमतृप्तिहेतुं किम्पाकपाकफलतुल्यमथो विपाके ।
नो शाश्वतं प्रचुरदोषकरं विदित्वा पञ्चेन्द्रियार्थसुखमर्थधियस्त्यजन्ति ॥
आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् ।
कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ॥
आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते ।
अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ॥
आपातरमणीयानां संयोगानां प्रियैः सह ।
अपथ्यानामिवान्नानां परिणामो हि दारुणः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0