भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4905-4924

4905

आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु ।
अगुरोस् तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ॥

4906

आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ ।
भवन्तो मम मित्राणि भवत्सु नास्ति भृत्यता ॥

4907

आपदं प्राप्नुयात् स्वामी यस्य भृत्यस्य पश्यतः ।
प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥

4908

आपदः क्षणमायान्ति संपदः क्षणमेव च ।
क्षणं जन्माथ मरणं मुने किमिव न क्षणम् ॥

4909

आपदः सन्ति महतां महतामेव संपदः ।
इतरेषां मनुष्याणं नापदो न च संपदः ॥

4910

आपदर्थे धनं रक्षेच् श्रीमतां कुत आपदः ।
कदाचिच्चलते लक्ष्मीः संचितं च विनश्यति ॥

4911

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि ।
आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥

4912

आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् ॥

4913

आपदामथ काले तु कुर्वीत न विचालयेत् ।
अशक्नुवंश्च युद्धाय निष्पतेत् सह मन्त्रिभिः ॥

4914

आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

4915

आपदामागमं दृष्ट्वा न विषण्णो भवेद् वशी ।
संपदं च सुविस्तीर्णां प्राप्य नोऽधृतिमान् भवेत् ॥

4916

आपदामापतन्तीनां हितोऽप्यायाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ॥

4917

आपदास्थितपन्थानाम् इन्द्रियाणामसंयमात् ।
त्यज्यते संपदां मार्गो यो नेष्टस्तेन पश्यत ॥

4918

आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥

4919

आपदि येनोपकृतं येन च हसितं दशासु विषमासु ।
उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥

4920

आपदो महतामेव महतामेव संपदः ।
क्षीयते वर्धते चन्द्रः कदाचिन् नैव तारकाः ॥

4921

आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
किं त्वं न पश्यसि न घटीर्जलयन्त्रचक्रे रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ॥

4922

आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्ताल् लोकोत्तरं परिमलं प्रकटीकरोति ॥

4923

आपद्ग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः ।
येषां मोक्षयितारो वै तेषां शान्तिर्न विद्यते ॥

4924

आपद्भुजङ्गदष्टस्य मन्त्रहीनस्य सर्वदा ।
वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc