महासुभाषितसंग्रह · श्लोक 4945-4964
आपातालगभीरे मज्जति नीरे निदाघसंतप्तः ।
न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि कुञ्जरः क्वापि ॥
आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर्गुरुर् वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः ।
ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- स्मेरासु क्षणदासु धेनुधवलीवर्गः परिक्रामति ॥
आपीनभारोद्वहनप्रयत्नाद् गृष्टिर्गुरुत्वाद् वपुषो नरेन्द्रः ।
उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥
आपीयमानमसकृद्भ्रमरायमाणैर् अम्भोधरैः स्फुरितवीचिसहस्रपत्रम् ।
क्षीराम्बुराशिमवलोकय शेषनालम् एकं जगत्त्रयसरः पृथुपुण्डरीकम् ॥
आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्धं मम ।
कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥
आ पुष्पप्रसवान् मनोहरतया विश्वास्य विश्वं जनं हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।
यावन्नैति परोपभोगसहतामेषा ततस्तां तथा ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनैव वन्द्यो भवान् ॥
आपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य ।
यद्यस्ति दूती सरसोक्तिदक्षा नाथः पतेत् पादतले वधूनाम् ॥
आपूपयुग्मं मदनस्स्य धात्रा विनिर्मितं वल्युपहारहेतोः ।
गल्लद्वयं कान्तरसातिरम्यं तस्या महास्नेहभृतं विभाति ॥
आपूरितमिदं श्यामतमसंतमसैरलम् ।
ब्रह्माण्डमण्डलं भाति सकज्जलकरण्डवत् ॥
आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं संजातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् ।
निर्वृत्तश्च फलेग्रहिर्द्रुमवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशम् ॥
आपूर्यमाणपलितं सुभगत्वकामः सार्धं प्रयाति दयिता पलिताधिकेन ।
पुष्पेक्षणत्वमपि शश्वदपोह्य पाकं याति प्रियो निकटमेव विलोचनेन (?) ॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥
आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर् भूयोऽपि प्रविभज्यमाननलिनं पश्येम तोयाशयम् ।
इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥
आ पूर्वस्माद् विडौजःकरिवमथुपयःसिक्तसानोर्गिरीन्द्राद् आ च प्रत्यक्पयोधेर्वरुणवरवधूनाभिनिष्पीतवारः ।
आ मेरोरा च सेतोरवनितलमिलन्मौलिविस्रंसमान- स्रग्दामानो यदीयं चरणमशरणाः पर्युपासन्नरेन्द्राः ॥
आपृच्छन्ते मलयजतरूनाश्वसन्त्येत्य वल्लीर् आभाषन्ते चिरपरिचितान् मालयान् निर्झरौघान् ।
अद्य स्थित्वा द्रविडमहिलामन्दिरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते संविधानम् ॥
आपृच्छस्व सखीं नमस्कुरु गुरून् नन्दस्व बन्धुस्त्रियः कावेरीतटसंनिविष्टनयने मुग्धे किमुत्ताम्यसि ।
आस्ते सुभ्रु समीप एव भवनादेलालतालिङ्गित- न्यञ्चत्तीरतमालदन्तुरदरी तत्रापि गोदावरी ॥
आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि गच्छाम्यहं स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।
इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ॥
आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीर् एह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवायत्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥
आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति ।
संकोचमञ्चति सरस् त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥
आपो वस्त्रं तिलास्तैलं गन्धो वा सयवा तथा ।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0