भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4885-4904

4885

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ॥ ...

4886

आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।
अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयेतरौ ॥

4887

आन्वीक्षिकीत्रयीवार्ताः सतीर्विद्याः प्रचक्षते ।
सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥

4888

दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति ।
तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ ...

4889

आन्वीक्षिक्यात्मविद्या स्याद् ईक्षणात् सुखदुःखयोः ।
ईक्षमाणस् तया तत्त्वं हर्षशोकौ व्युदस्यति ॥

4890

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
विद्याश्चतस्र एवैता अभ्यसेद् नृपतिः सदा ॥

4891

आन्वीक्षिक्यां तर्कशास्त्रं वेदान्ताद्यं प्रतिष्ठितम् ।
त्रय्यां धर्मो ह्यधर्मश्च कामोऽकामः प्रतिष्ठितः ॥

4892

आन्वीक्षिक्यात्मविज्ञानाद् हर्षशोकौ व्युदस्यति ।
उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥

4893

आपह् पवित्रं प्रथमं पृथिव्याम् अपां पवित्रं परमं च मन्त्राः ।
तेषां च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥

4894

आपज्जलनिमग्नानां ह्रियतां व्यसनोर्मिभिः ।
वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथंचन ॥

4895

आपत्काले तु संप्राप्ते यन् मित्रं मित्रमेव तत् ।
वृद्धिकाले तु संप्राप्ते दुर्जनोऽपि सुहृद् भवेत् ॥

4896

आपत्काले नृणां नूनं मरणं नैव लभ्यते ।
... ... ... ... ... ... ॥

4897

आपत्कालोपयुक्तासु कलासु स्यात् कृतश्रमः ।
नृत्यवृत्तिर्विराटस्य किरीटी भवनेऽभवत् ॥

4898

आपत् तुला सहायानाम् आत्मनः पौरुषस्य च ।
अनापदि सुहृत् सर्वः स्वयं च पुरुषायते ॥

4899

आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः ।
ते शोच्या बन्धूनां जीवन्तोऽपीह मृततुल्याः ॥

4900

आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे ।
विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलोल्लिखनं सहन्ते ॥

4901

आपत्सु किं विषादेन संपत्तौ विस्मयेन किम् ।
भवितव्यं भवत्येव कर्मणामेष निश्चयः ॥

4902

आपत्सु च न मुह्यन्ति नराः पण्दितबुद्धयः ।
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्पितं जगत् ॥

4903

आपत्सु मित्रं जानीयाद् रणे शूरं रहः शुचिम् ।
भार्यां च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥

4904

आपत्स्वमूढो धृतिमान् यह् सम्यक् प्रतिपद्यते ।
कर्मण्यवश्यकार्याणि तमाहुः पण्डितं बुधाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc