महासुभाषितसंग्रह · श्लोक 4865-4884
आनीयते शरीरेण क्षीणोऽपि विभवः पुनः ।
विभवः पुनरानेतुं शरीरं क्षीणमक्षमः ॥
आनीलचूचुकशिलीमुखमुद्गतैक- रोमावलीविपुलनालमिदं प्रियायाः ।
उत्तुङ्गसंगतपयोधरपद्मयुग्मं नाभेरधः कथयतीव महानिधानम् ॥
आनीलां करपल्लवैरपनयन्नच्छां तमःकञ्चुकीम् आशां संप्रति वासवीमनुसरन्नक्षीणरागः शशी ।
अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकाम् आलिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकाम् ॥
आनुकूल्येन दैवस्य वर्तितव्यं सुखार्थिना ।
दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ॥
आनृशंस्यं क्षमा सत्यम् अहिंसा दम आर्जवम् ।
प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ॥
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं न सत्याद् विद्यते परम् ॥
आनृशंस्यं परो धर्मः सर्वप्राणभृतां मतः ।
तस्माद् राजानृशंस्येन पालयेत् कृपणं जनम् ॥
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ।
राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥
आनेतुं न गता किमु प्रियसखी भीतो भुजङ्गात् किमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणेश्वरो वर्तते ।
इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलाद् अक्ष्णोः कापि नवोढनीरजमुखी बाष्पोदकं मुञ्चति ॥
आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम् ।
असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥
आन्तरे चैव बाह्ये च राजा यश्चैव सर्वदा ।
आदिष्टो नैव कम्पेत स राजवसतिं वसेत् ॥
आन्तरेभ्यः परान् रक्षेत् परेभ्यः पुनरान्तरान् ।
परान् परेभ्यः स्वान् स्वेभ्यः सर्वान् रक्षेत सर्वदा ॥
आन्दोलनैर्मद्वपुषा लगन्तीं स्मरामि वेणीं पुरुषायितायाः ।
समाचरन्त्याः सुरतोपदेशं तस्याः कशावल्लिमिव प्रियायाः ॥
आन्दोलयन् गिरिनिकुञ्जकरञ्जराजीर् नाजीगणः कलभ कंचन पौरुषेण ।
ईषत्समुन्मिषितलोचनकोण एव कण्ठीरवे किमिति जीवितमुज्जहासि ॥
आन्दोलयन्ती वपुरायताक्षी हिन्दोलिकायां कनकाङ्गयष्टिः ।
अतर्कि लोकैर्गगनान्तरस्था स्वर्देवतेवाखिलरूपरम्या ॥
आन्दोलयस्यविरतं गगनार्कमङ्के तारागणं च शशिनं च तथेतराणि ।
तेजांसि भासुरतडित्प्रभृतीनि साधो चित्रं तथापि न जहासि यदान्ध्यमन्तः ॥
आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्वणिताम् ।
स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ॥
आन्ध्रत्वमान्ध्रभाषा च प्राभाकरपरिश्रमः ।
तत्रापि याजुषी शाखा नाल्पस्य तपसः फलम् ॥
आन्ध्री प्रीतिनिबन्धनैकनिपुणा लाटी विदग्धप्रिया कर्णाटी सुरतोपचारचतुरा नारी शुचिश्चोलिका ।
आभीरी पुरुषायितप्रियरता लज्जान्विता गूर्जरी काश्मीरी रतिलालसा निधुवने धृष्टा महाराष्ट्रकी ॥
आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः ।
तद्विद्यैस्तत्क्रियोपेतैश् चिन्तयेद् विनयान्वितः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0