भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4644-4664

4644

आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वम् आत्मन्येव प्रलीयसे ॥

4645

आत्मानमालोक्य च शोभमानम् आदर्शबिम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥

4646

आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥

4647

आत्मानमेव प्रथमम् इच्छेद् गुणसमन्वितम् ।
कुर्वीत गुणसंपन्नस् ततः शेषपरीक्षणम् ॥

4649

आत्मापि चायं न मम सर्वा वा पृथिवी मम ।
यथा मम तथान्येषाम् इति बुद्ध्या न मे व्यथा ॥

4650

आत्मा प्रयत्नादर्थेभ्यो मनः समधितिष्ठति ।
संयोगादात्ममनसोः प्रवृत्तिरुपजायते ॥

4651

आत्माभिधं सुखमनन्तमखण्डमेकं यज्ञादिकर्मजनितेन सुखेन तुल्यम् ।
मा ब्रूहि कर्म सुखदं तदपीति बुद्ध्या रत्नाकरस्य सदृशं नु कुलालकुण्डम् ॥

4652

आत्मा मनश्च तद्विद्यैर् अन्तःकरणमुच्यते ।
ताभ्यां तु सप्रयत्नाभ्यां संकल्प उपजायते ॥

4653

आत्मा बुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते ।
संकल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥

4654

उभे एते हि करणे यत्नानन्तर्यके स्मृते ।
तस्मात् प्रयत्नसंरोधाद् भावयेन्निर्मनस्कताम् ॥

4655

आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता ।
दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ॥

4656

आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ग्राह्योऽचलेन मनसा सतताभियोगात् ।
यो यं विचिन्तयति याति स तन्मयत्वं यस्मादतः सुभगमेव गता युवत्यः ॥

4657

आत्मा यस्य वशे नास्ति कुतस् तस्य परे जनाः ।
आत्मानं वशमानीय त्रैलोक्यं वर्तते वशे ॥

4658

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।
ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ॥

4659

आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद् विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्तु देवं पुराणम् ॥

4660

आत्मार्थं जीवलोकेऽस्मिन् को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति स जीवति ॥

4661

आत्मार्थं यः पशून् हन्यात् सोऽवश्यं नरकं व्रजेत् ।
देवान् पित् न् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥

4662

आत्मार्थं युक्तवित्तानां मित्रमण्डलभेदिनाम् ।
अतिलङ्घितलोकानां न बन्धः केनचित् क्वचित् ॥

4663

आत्मार्थत्वेन हि प्रेयान् विषयो न स्वतः प्रियः ।
स्वत एव हि सर्वेषाम् आत्मा प्रियतमो यतः ।
तत आत्मा सदानन्दो नास्य दुःखं कदाचन ॥

4664

आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा ।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc