भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4665-4684

4665

... ... ... ... ... ... ।
आत्मा वै यमितो येन स यमस्तु विशिष्यते ॥

4666

आत्मा समस्तजगतां भवतीति सम्यग् विज्ञाय यद् वितनुते त्वयि भावबन्धम् ।
सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥

4667

आत्मा सहैति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः ।
योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा ॥

4668

आत्मास्ति सर्वजगताम् आधारः पूर्वमिति विचिन्त्यैव ।
पश्चात् तत्त्वविचारः कुड्ये सत्येव चित्रकर्म स्यात् ॥

4669

आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम् ।
... ... ... ... ... ... ॥

4670

आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि स्वीयेनैव करेण कर्षति तरोः पुष्पं श्रमाशङ्कया ।
तल्पे किं च मृगत्वचा विरचिते निद्राति भागैर्निजैर् अन्तःप्रेमभरालसां प्रियतमामङ्गे दधानो हरः ॥

4671

आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि ।
तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः ॥

4672

आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् ।
आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥

4673

आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः ।
विश्वत्र सात्र सविलक्षणलक्षणाया विस्रम्भसंपदियमेव समस्तमङ्गि ॥

4674

आत्मैव यदि नात्मानम् अहितेभ्यो निवारयेत् ।
कोऽन्यो हितकरस्तस्माद् आत्मानं वारयिष्यति ॥

4675

आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः ।
मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥

4676

आत्मैव ह्यात्मनो बन्धुर् आत्मैव रिपुरात्मनः ।
आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥

4677

अत्मोदयः परज्यानिर् द्वयं नीतिरितीयती ।
तदूरीकृत्य कृतिभिर् वाचस्पत्यं प्रतीयते ॥

4678

आत्मोपकारचतुरा नरा न गणयन्ति गुरुकुलक्लेशम् ।
वेधव्यथैव कियती श्रवसो ह्यवतंसभूषणीयस्य ॥

4679

आत्मोपमश्च भूतेषु यो वै भवति पूरुषः ।
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥

4680

आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनम् ।
स एव वञ्च्यते तेन ब्राह्मणाश्छागतो यथा ॥

4681

आत्म्यौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥

4682

आददानः प्रतिदिनं कलाः सम्यङ् महीपतिः ।
शुक्लपक्षे प्रविचरन् शशाङ्क इव वर्द्धते ॥

4683

आदरं राजसदसि धनेन लभते नरः ।
सुभटः शत्रुसंग्रामे विक्रमेण यथा जयम् ॥

4684

आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् ।
तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc