भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4624-4643

4624

आत्मानं च परं चैव पलायन् हन्ति संयुगे ।
द्रव्यनाशो व्ययोऽकीर्तिर् अयशश्च पलायने ॥

4625

आत्मानं च परं चैव वीक्ष्य धीरः समुत्पतेत् ।
एतदेव हि विज्ञानं यदात्मपरवेदनम् ॥

4626

आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयन् ।
देवतातिथिभृत्यांश्च स कदर्य इति स्मृतः ॥

4627

आत्मानं नावमन्येत पूर्वाभिरसमृद्धिभिः ।
आमृत्योः श्रियमन्विच्छेन् नैनां मन्येत दुर्लभाम् ॥

4628

आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।
प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम् ॥

4629

आत्मानं परमं प्रमाणनिकरैरप्राप्यमव्याहतं ज्ञेयं यद् गुरुवीक्षणादपि जना मूढास्तु मुक्त्वैव तत् ।
कोशेषु प्रमितेषु पञ्चसु परिज्ञातुं समुद्युञ्जते नष्टेभाः कलशान्तरेष्वपि करं कृत्वा विचिन्वन्ति हि ॥

4630

आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
ततः पुत्रांस् ततोऽमात्यांस् ततो भृत्यांस् ततः प्रजाम् ॥

4631

आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
ततोऽमात्यांस् ततो भृत्यांस् ततः पुत्रांस् ततः प्रजाः ॥

4632

आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन च ।
न पुनर्म्रियमाणस्य पश्चात्तापो भविष्यति ॥

4633

आत्मानं मन्त्रिणं दूतम् अमात्यवचनं क्रमम् ।
आकारं ब्रुवते षष्ठम् एतावान् मन्त्रनिश्चयः ॥

4634

आत्मानं मन्त्रिदूतं च च्छन्नं त्रिषवणक्रमम् ।
आकारं ब्रुवते षष्ठम् एतावान् मन्त्रनिश्चयः ॥

4635

आत्मानं सततं रक्षेद् दारैरपि धनैरपि ।
पुनर्दाराः पुनर्वित्तं न शरीरं पुनः पुनः ॥

4636

आत्मानं सर्वथा रक्षेद् राजा रक्षेच्च मेदिनीम् ।
आत्ममूलमिदं सर्वम् आहुर्हिविदुषो जनाः ॥

4637

आत्मानं सुस्थिरं लक्ष्यं चैव स्थिरं बुधः ।
वेधयेत् त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥

4638

आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः ।
तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥

4639

आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलसमाधियुक्ता ।
तस्यां स्नातः पुण्यकर्मा पुनाति न वारिणा शुद्ध्यति चान्तरात्मा ॥

4640

आत्मानन्दरसज्ञानाम् अलं शास्त्रावलोकनम् ।
भक्षितव्या ह्यपूपाः किं गण्यानि सुषिराणि किम् ॥

4641

आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥

4642

आत्मानमन्यमथ हन्ति जहाति धर्मं पापं समाचरति युक्तमपाकरोति ।
पूज्यं न पूजयति वक्ति विनिन्द्यवाक्यं किं किं करोति न नरः खलु कोपयुक्तः ॥

4643

आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः ।
नास्ति क्षतिर्नोपचितः कदापि पयोदवृत्तेः खलु चातकस्य ॥
आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः ।
प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc