भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4604-4623

4604

आत्मवत् सर्वभूतानि पश्यतां शान्तचेतसाम् ।
अभिन्नमात्मनः सर्वं को दाता दीयते च किम् ॥

4605

आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् ।
स्वयमेव लयं याति यथा राजान्यधर्मतः ॥

4606

आत्मवर्गं परित्यज्य परवर्गेषु ये रताः ।
वानवन्नहं रोदिमि आत्मानं नैव रोद्यते ॥

4607

आत्मवर्गं परित्यज्य परवर्गेषु ये रताः ।
सर्वे तेऽपि विनश्यन्ति यथा राजा कुकर्दमः ॥

4608

आत्मवांस्त्वल्पदेशोऽपि युक्तः प्रकृतिसंपदा ।
नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ॥

4609

आत्मविक्रयिणि क्लीबे सदा शङ्कितचेतसि ।
नित्यमिष्टवियोगार्ते किं सेवकपशौ सुखम् ॥

4610

आत्मवित् सह तया दिवानिशं भोगभागपि न पापमाप सः ।
आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ॥

4611

आत्मसंपद्गुणैः सम्यक् संयुक्तं युक्तकारिणम् ।
महेन्द्रमिव राजानं प्राप्य लोको विवर्धते ॥

4612

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥

4613

आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस् तु मित्रवत् ।
धनदस् तु कुबेरः स्याद् यमः स्याच् च सुदण्डकृत् ॥

4614

आत्मस्त्रीधनगुह्यानां शरणं समये सुहृत् ।
प्रोक्तोत्तमोऽयमन्यश्च त्रिद्व्येकपदमित्रकः ॥

4615

आत्महेतोः परार्थे वा नर्महास्याश्रयात् तथा ।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥

4616

आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।
कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितम् ॥

4617

आत्मा जन्मशतैर्धनार्जनधिया मिथ्या किमायास्यते पङ्गोः श्रीर्गृहमेति लङ्घितभुवो दैवेच्छया निर्धनाः ।
इत्येताः पुरुषार्थमूलहतयः कैश्चित् समुत्सारिता मुग्धानामलसोत्कटाः प्रतिपदं कुर्वन्ति चित्तभ्रमम् ॥

4618

आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
अजितात्मा नरपतिर् विजयेत कथं रिपून् ॥

4619

आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः ।
तस्माद् भार्यां नरः पश्येन् मातृवत् पुत्रमातरम् ॥

4620

आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।
कदन्नमपि मर्त्यानाम् अमृतत्वाय कल्पते ॥

4621

आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते ।
यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ॥

4622

आत्मानं च जगत् सर्वं दृशा नित्याविभिन्नया ।
चिदाकाशमयं ध्यायन् योगी याति परां गतिम् ॥

4623

आत्मानं च परं चैव त्रायते महतो भयात् ।
क्रुध्यन्तमप्रतिक्रुध्यन् द्वयोरेष चिकित्सकः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc