महासुभाषितसंग्रह · श्लोक 4584-4603
आत्मन्निच्छसि हन्त शाश्वतपुरीमार्गे विहर्तुं यदि भ्रातः संयमवर्मणा कुरु तदा रक्षाविधिं सर्वतः ।
नो चेदिन्द्रियतस्करैस्तव हठात् तीक्ष्णाग्रभूरिस्फुरच्- चिन्ताभल्लशतैर्विभिद्य मनसो ग्राह्यो विवेको मणिः ॥
आत्मन्यपि न विश्वासस् तावान् भवति सत्सु यः ।
तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥
आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती यद्गात्रान्तरवर्जनादजनयद् भूजानिरेष द्विषाम् ।
भूयोऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत् तन्मर्माणि दलं दलं समिदलंकर्मीणबाणव्रजः ॥
आत्मपक्षक्षयायैव परपक्षोदयाय च ।
मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ॥
आत्मपक्षपरित्यागात् परपक्षेषु यो रतः ।
स परैर्हन्यते मूढो नीलवर्णशृगालवत् ॥
आत्मपितृभ्रातरश्च तत् स्त्रीपुत्राश्च शत्रवः ।
स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस् तथा ॥
आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः ।
गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक् ॥
आत्मप्रतीतिर्दृढता विरक्तिर् इति त्रयं स्वात्मनि यो दधाति ।
नेता स एवास्ति समस्तशिष्ट- गुणाश्रयत्वान्निखिलप्रजानाम् ॥
आत्मप्रशंसा मरणं परनिन्दा च तादृशी ।
तथापि वक्ष्ये काकुत्स्थ नास्ति मत्सदृशः कपिः ॥
आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ।
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥
आत्मबुद्धिः सुखं चैव गुरुबुद्धिर्विशेषतः ।
परबुद्धिरर्विनाशाय स्त्रीबुद्धिः प्रलयंकरी ॥
आत्मबुद्ध्या सुखी भूयात् गुरुबुद्ध्या विशेषतः ।
बहुबुद्ध्या विनाशः स्यात् स्त्रीबुद्ध्या प्रलयो भवेत् ॥
आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥
आत्मरक्षा हि सततं पूर्वं कार्या विजानता ।
अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनाम् ॥
एकदेशंदहेद् अग्निः शरीरं वा परं गतः ।
सपुत्रदारं राजा तु घातयेद् अर्धयेत वा ॥
आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम् ।
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥
आत्मरतिः परशाठ्यं सज्जनबन्धुवर्जनम् ।
रिपौ श्रद्धा स्त्रियां भक्तिः तस्य निन्दा भवेद् ध्रुवम् ॥
आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
किं जानन्ति वराकाः काकाः केकारवान् कर्तुम् ॥
आत्मवत् सततं पश्येद् अपि कीटपिपीलिकम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥
आत्मवत् सर्वभूतानि परद्रव्याणि लोष्टवत् ।
मातृवत् परदारांश्च यः पश्यति स पश्यति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0