भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4564-4583

4564

आत्मनश्च परेषां च यः समीक्ष्य बलाबलम् ।
अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥

4565

आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
तस्मात् सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥

4566

आत्मनश्च प्रजायाश्च दोषदर्श्युत्तमो नृपः ।
विनियच्छति चात्मानम् आदौ भृत्यांस्ततः प्रजाः ॥

4567

आत्मनात्मानमन्विच्छेन् मनोबुद्धीन्द्रियैर्यतैः ।
आत्मैव ह्यात्मनो बन्धुर् आत्मैव रिपुरात्मनः ॥

4568

आत्मनानर्थयुक्तेन पापे निविशते मनः ।
स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥

4569

आत्मनाम गुरोर्नाम नामातिकृपणस्य च ।
आयुष्कामो न गृह्णीयात् ज्येष्ठापत्यकलत्रयोः ॥

4570

आत्मना विहितं दुःखम् आत्मना विहितं सुखम् ।
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम् ॥

4571

आत्मनाशाय नोन्नत्यै छिद्रेण परिपूर्णता ।
भूयो भूयो घटीपात्रं निमज्जत् किं न पश्यसि ॥

4572

आत्मना संगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
पदलग्नं करस्थेन कण्टकेनैव कण्टकम् ॥

4573

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ॥

4574

आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विरमन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भूद् अर्थिता कथमिवार्यसंगमे ॥

4575

आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
यत्तथापि न गुरून् न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥

4576

आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः ।
यत् प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ॥

4577

आत्मनो न सहायार्थं पिता माता च तिष्ठति ।
न पुत्रदारा न ज्ञातिर् धर्मस्तिष्ठति केवलम् ॥

4578

आत्मनो बलमज्ञात्वा धर्मार्थपरिवर्जितम् ।
अलभ्यमिच्छन् नैष्कर्म्यान् मूढबुद्धिरिहोच्यते ॥

4579

आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।
देशकालबलोपेतः प्रारभेतैव विग्रहम् ॥

4580

आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
बकास् तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ॥

4581

आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजा ।
शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन् पित् न् ॥

4582

आत्मनो वधमाहर्ता क्वासौ विहगतस्करः ।
येन तत् प्रथमं स्तेयं गोप्तुरेव गृहे कृतम् ॥

4583

आत्मनो विक्रियमिव कुर्वन् दद्यात् समीहितम् ।
जलवत् पर्वताञ्छत्रून् भिन्द्यादनुपलक्षितः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc