महासुभाषितसंग्रह · श्लोक 4544-4563
आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलमुत्तरीयविषये सद्यो मया सञ्जितम् ।
श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ॥
आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते ।
शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥
आत्मकार्यं महाकार्यं परकार्यं न केवलम् ।
आत्मकार्यस्य दोषेण कूपे पतति मानवः ॥
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥
आत्मच्छिद्रं न जानाति परच्छिद्राणि पश्यति ।
श्वच्छिद्रं यदि जानाति परच्छिद्रं न पश्यति ॥
आत्मजन्मास्पदं वंशं कामं दहन वार्यसे ।
किं तु संनिहितानेताण् अप्यग्ने किं दहस्यहो ॥
आत्मजादिपरिक्लेशम् आत्मन्यारोप्य मूढधीः ।
प्रतिकर्तुमशक्तोऽपि वार्द्धक्ये शोचते परम् ॥
आत्मज्ञः शौचवान् दान्तस् तपस्वी विजितेन्द्रियः ।
धर्मकृद् वेदविद्यावित् सात्त्विको देवयोनिताम् ॥
आत्मज्ञानं समारम्भस् तितिक्षा धर्मनित्यता ।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥
आत्मज्ञानमनायासस् तितिक्षा धर्मनित्यता ।
वाक् चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥
आत्मज्ञानी यतो धन्यो मध्यः पितृपितामहैः ।
मातृपक्षेण मात्रा च ख्यातिं याति नराधमः ॥
आत्मतत्त्वं न जानाति करोति बहुविस्तरम् ।
स एव निधनं याति नालिकेरोदकं यथा ॥
आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते ।
देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः ॥
आत्मदोषैर्नियच्छन्ति सर्वे दुःखमुखे जनाः ।
मन्ये दुश्चरितं तेऽस्ति तस्येयं निष्कृतिः कृता ॥
आत्मद्वेषाद् भवेन् मृत्युः परद्वेषाद् धनक्षयः ।
राजद्वेषाद् भवेन् नाशो ब्रह्मद्वेषात् कुलक्षयः ॥
आत्मनः प्रतिकूलानि परेभ्यो यदि नेच्छसि ।
परेषां प्रतिकूलेभ्यो निवर्तय ततो मनः ॥
आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।
लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥
आत्मनः शक्तिमुद्वीक्ष्य मानोत्साहौ तु यो व्रजेत् ।
शत्रूनेकोऽपि हन्याच्च क्षत्रियान् भार्गवो यथा ॥
आत्मनश्च परित्राणे दक्षिणानां च संगरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥
आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् ।
भयकृद् भूपतेर्बाहुर् द्विषां च सुहृदां च ते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0