महासुभाषितसंग्रह · श्लोक 4524-4543
आततायिनमायान्तम् अपि वेदान्तपारगम् ।
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ॥
आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः ।
आदौ रक्तं सैनिकानामजीवैर् जीवैः पश्चात् पत्रिपूगैरपायि ॥
आतपत्यविदुषाममृतांशुम् अंशुमन्तमपि रश्मिसहस्रे ।
रागिणां भवति लक्षणमिन्दोर् इन्द्रनीलशकलच्छविलक्ष्म ॥
आतपासहनः पाण्डुः शाखाहीनो मुहुर् यदि ।
अकालफलपाकी स्याच् छाखी पित्तात्मकः कृशः ॥
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वमसह्यम् ॥
आतरलाघवहेतोर् मुरहर तरिं तवावलम्बे ।
अपणं पणमिह कुरुषे नाविकपुरुषे न विश्वासः ॥
आताम्रतामपनयामि विवर्ण एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणामयि स्यात् ॥
आताम्राः किरणा रवेर्नवदलत्वक्पल्लवाः पादपाः वल्ल्यस्तारकतुल्यकान्तिसुमनःसौरभ्यसंभाविताः ।
वात्यस्मिन् मधुमत्तषट्पदपदव्याधूतचूतद्रुम- प्राग्भारप्रपतत्परागपटलामोदी मरुद् दाक्षिणः ॥
आताम्राभा रोषभाजः कटान्ताद् आशूत्खाते मार्गणे धूर्गतेन ।
निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥
आताम्रायतलोचनांशुलहरीलीलासुधाप् यायितैः गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः ।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥
आताम्रे नयने स्फुरन् कुचभरः श्वासो न विश्राम्यति स्वेदाम्भःकणदन्तुरं तव मुखं हेतुस्तु नो लक्ष्यते ।
धिक् को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयंस् तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ॥
आताम्रौ पूजितावोष्ठौ लेलिहानौ मृदुत्वचौ ।
जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ॥
आतारुण्योद्भेदात् कान्ते दृष्टिर्यथा न्यस्ता ।
सामाजिकमध्यस्था कथमन्या समुपयाति परभागम् ॥
आतिथ्यं ब्राह्मणानां तु कुर्यात् प्रतिदिनं गृहे ।
आतिथ्ये रन्तिदेवस्य मधुपर्कं गवां शतम् ॥
आतिथ्ये श्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
महाजने च सिद्धार्थो न गच्छेद् योगवित् क्वचित् ॥
आतुरस्य कुतो निद्रा त्रस्तस्यामर्षितस्य च ।
अर्थं चिन्तयतो वापि कामयानस्य वा पुनः ॥
आतुराद् वित्तहरणं मृताच्च प्रपलायनम् ।
एतद् वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ॥
आतुरे च पिता वैद्यः स्वस्थीभूते च बान्धवः ।
गते रोगे कृते स्वास्थ्ये वैद्यो भवति पालकः ॥
आतुरे नियमो नास्ति बाले वृद्धे तथैव च ।
पराचाररते चैव एष धर्मः सनातनः ॥
आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ।
अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0