भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4504-4523

4504

आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥

4505

आज्ञाभङ्गकरान् राजा न क्षमेत सुतानपि ।
विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ॥

4506

आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः ।
पृथक् शय्या च नारीणाम् अशस्त्रविहितो वधः ॥

4507

आज्ञामवाप्य महतीं द्विषतां निखातान्- निर्वर्त्य तां सपदि लब्धमुखप्रसादः ।
उच्चैः प्रमोदमनुमोदितदर्शनः सन् धन्यो नमस्यति पदाम्बुरुहं प्रभूणाम् ॥

4508

आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः ।
ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ॥

4509

आज्ञामेव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् अत्युच्चैः पदमिच्छता पुनरियं नो लङ्घनीया त्वया ।
मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं तस्य त्वां गिलतः कपोलमिलनक्लेशोऽपि किं जायते ॥

4510

आज्ञा मौलिषु भूभुजां भयरुजा चित्तेषु दुर्मेधसां प्रीतिः सत्सु दिशासु कीर्तिरतुला येनार्पिता सर्वतः ।
सर्वं राज्यमकण्टकं च विहितं ध्वस्ता द्विषां संपदः सोऽसौ संमतवैभवो विजयते श्रीराजनारायणः ॥

4511

आज्ञारूपेण या शक्तिः सर्वेषां मूर्धनि स्थिता ।
प्रभुशक्तिर् हि सा ज्ञेया प्रभावमहितोदया ॥

4512

आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग् वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥

4513

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
योऽदृष्टदोषां त्यजति सोऽक्षयं नरकं व्रजेत् ॥

4514

आज्ञेव शम्बररिपोरवलङ्घनीया वाञ्छेव विग्रहवती वशगा दृशोर् मे ।
अन्यार्थमेव किमुतापणमभ्युपैति संदेशमानयति सा किमु सारसाक्ष्याः ॥

4515

आञ्जस्यं व्यवहाराणाम् आर्जवं परमं धियाम् ।
स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ॥

4516

आटीकसेऽङ्गकरिघोटीपदातिजुषि वाटीभुवि क्षितिभुजां चेटी भवंस्तदपि शाटीनते वपुषि वीटीनवाधिवदनं ।
कोटीररत्नपरिपाटी भृशारुणितजूटीविधुन्तनुलसन् पाटीरलिप्तिमिभधाटीजुषं सुरवधूटीनुतां भज शिवम् ॥

4517

आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो सन्मनोरञ्जनम् ।
न स्याद् यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥

4518

आढ्यराजकृतोत्साहैर् हृदयस्थैः स्मृतैरपि ।
जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥

4519

आढ्यस्य किं च दानेन सुहितस्याशनेन किम् ।
किं शशाङ्केन शीतालोः किं घनेन हिमागमे ॥

4520

आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।
तैलप्रायं दरिद्राणां भोजनं भरतर्षभ ॥

4521

आढ्यान्निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः ।
द्वयमाकुलयति चेतः स्कन्धावारद्विजातीनाम् ॥

4522

आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥

4523

आततायिनमायान्तं हन्यादेवाविचारयन् ।
हननादेव निस्तारो नरकात् तस्य दुष्कृतेः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc