महासुभाषितसंग्रह · श्लोक 4484-4503
आजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुधं केनाकारि पुरा तनूदरि तनुत्यागः प्रयागभ्रमे ।
यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्- बष्पाम्भःपतनान्तरालवलितग्रीवं पथः पश्यसि ॥
आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च ।
सोढुं तयोर्मूखाक्षेपम् अलमेकैव सा क्षमा ॥
आजन्मसेवितं दानैर् मानैश्च परिपोषितम् ।
तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुताम् ।
वक्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ॥
आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् ।
अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न सोऽस्तियो न हसति त्वत्संपदां विप्लवे ॥
आजन्मानुगतेऽप्यस्मिन् नाले विमुखमम्बुजम् ।
प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम् ॥
आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः ।
धिग् धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरम् ॥
आजानुलम्बिबाहुः कम्बुग्रीवो बली चतुर्दंष्ट्रः ।
भाग्यनिधिः पृथुवक्षा लघुमधुराशी च पद्माक्षः ॥
आजावसौ चोडनृपस्य सेना महावनस्याश्वमृगाकुलस्य ।
मत्तेभसारद्रुमपूर्णितस्य दावानलोऽभूच्चलमूर्तिचण्डः ॥
आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संभावनाव्यत्ययात् ।
यत्किंचित्करणे परस्वहरण व्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियः ॥
आ जीवनास्तात् प्रणयाः कोपास्तत्क्षणभङ्गुराः ।
परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम् ॥
आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।
परित्यागाश्च निःसङ्गा न भवन्ति महात्मनाम् ॥
आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ ।
कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ॥
आजीव्यः सर्वभूतानां राजा पर्जन्यवद् भवेत् ।
निराजीव्यं त्यजन्त्येनं शुष्कं सर इवाण्डजाः ॥
आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।
न तस्माद् विन्दते क्षेमं जारान्नार्यसती यथा ॥
आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलाभिरुर्व्यां दीर्णायां देव निर्यन्नविरलमवनीपाल पातालवह्निः ।
अश्नीयाद् विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारा- वारा यद्येनमारादरिकुलदमन द्राङ् न निर्वापयेयुः ॥
आज्ञां मन्मथचक्रवर्तिनृपतेरादाय निःशङ्कधीर् भ्राम्यद्भृङ्गमहाजनान् पिकगिरा साकूतमाकारयन् ।
कुञ्जाटे च्युतपत्रसंस्तरवति श्रीमान् वसन्ताभिधो व्यापारी सुमनोमरन्दवसुभिर् वाणिज्यमालम्बते ॥
आज्ञाकरश्च ताडन- परिभवसहनश्च सत्यमहमस्याः ।
न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥
आज्ञा काकुर्याच्ञा- क्षेपो हसितं च शुष्करुदितं च ।
इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥
आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च ।
येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस् तेषां पार्थिवोपाश्रयेण ॥
आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
यत्ते ब्रूयुरसत् सद्वा स धर्मो व्यवहारिणाम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0