महासुभाषितसंग्रह · श्लोक 4464-4483
आच्छन्ने क्षितितेजसी मनसिजव्यापारमेयं मनः स्वात्मा च द्वयमेतदस्ति दशमं द्रव्यं परेषां तमः ।
कालाकाशदिशां निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च वारिदरवः कर्मापि वारिक्रिया ॥
आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम् ।
खण्डिता एव शोभन्ते वीराधरपयोधराः ॥
आच्छादितायतदिगम्बरमुच्चकैर्गाम् आक्रम्य संस्थितमुदग्रविशालशृङ्गम् ।
मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनम् उद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥
आच्छाद्य पुष्पपटमेष महान्तमन्त- रावर्तिभिर्गृहकपोतशिरोधराभैः ।
स्वाङ्गानि धूमरुचिमागुरवीं दधानैर् धूपायतीव पटलैर्नवनीरदानाम् ॥
आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।
हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतम् ॥
आच्छिद्य लक्ष्मीमित एव पूर्वम् अत्रैव विस्रम्भसुखप्रसुप्तः ।
एकः परं वेद स कैटभारिर् महाशयत्वं मकरालयस्य ॥
आच्छिद्योरगमण्डलीकबलनाकाङ्क्षारसं पत्रिणां भर्तुर्येन शरीरदानविधिना मन्ये जगद्रक्षितम् ।
नो चेत् तेन गरुत्मता कबलिते शेषे निरालम्बना क्व क्षोणी क्व पयोधराः क्व गिरयः क्वैते दिशां नायकाः ॥
आजगाम यदा लक्ष्मीर् नारिकेलफलाम्बुवत् ।
निर्जगाम यदा लक्ष्मीर् गजभुक्तकपित्थवत् ॥
आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा ।
एकामपि काकलिकां कोकिलकान्तेव नाकलयेत् ॥
आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा ।
केकिवदेकां केकां कोकिलवत् पञ्चमं च किं कुरुते ॥
आजन्मकल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः ।
तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधुमक्षिकाभिः ॥
आ जन्मनः कुशलमण्वपि रे कुजन्मन् पांसो त्वया यदि कृतं वद तत्त्वमेतत् ।
उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥
आ जन्मनः प्रतिमुहूर्तविशेषरम्याण्य् आचेष्टितानि तव संप्रति तानि तानि ।
चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ॥
आ जन्मनः शाठ्यमशिक्षितो यस् तस्याप्रमाणं वचनं जनस्य ।
परातिसम्धानमधीयते यैर् विद्येति ते सन्तु किलाप्तवाचः ॥
आ जन्मनः सहजतुल्यर्विवर्तमान- दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः ।
येनात्मनोऽपरिगणय्य विनाशमाशु देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ॥
आ जन्मनः सह निवासितया मयैव मातुः पयोधरपयोऽपि समं निपीय ।
त्वं पुण्डरीकमुख बन्धुतया निरस्तम् एको निवापसलिलं पिबसीत्ययुक्तम् ॥
आ जन्मनो विहितभक्तिरनन्यनाथः सारथ्यकर्मणि च दक्षतया नियुक्तः ।
नाद्याप्यवाप चरणावरुणोऽपि सूर्यात् पुण्यैर्विना नहि भवन्ति मनीषितानि ॥
आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान- ज्याघातश्रेणिसम्ज्ञान्तरितवसुमती चक्रजैत्रप्रशस्तिः ।
वक्षः पीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्कान् प्राप्तो राजन्यगोष्ठीवनगजमृगया कौतुकी जामदग्न्यः ॥
आजन्मब्रह्मचारी सकलरिपुकुलानल्पकालाग्निकल्पः कल्पान्तः कल्पकर्ता कपिशतनुरुचिः कामगः कामदाता ।
कान्तः कामारिबन्धुः कपिकुलतिलकः कोपनः कोमलाङ्गः कौशल्यासूनुदूतः कलयतु कुशलं वायुपुत्रश्चिरं वः ॥
आजन्मविषसंभोगात् कन्या विषमयी कृता ।
स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत् परीक्षणम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0