भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4423-4443

4423

आचारः कुलमाख्याति वपुराख्याति भोजनम् ।
वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम् ॥

4424

आचारः खलु कर्तव्यः प्राणैः कण्ठगतैरपि ।
आचारैः शुध्यते देहो वस्त्रं क्षारोदकैरिव ॥

4425

आचारः परमो धर्म आचारः परमं तपः ।
आचारः परमं ज्ञानम् आचारात् किं न साध्यते ॥

4426

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥

4427

आचारः परमो धर्मः सर्वेषामिति निश्चयः ।
हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ॥

4428

आचारः प्रथमो धर्मो नृणां श्रेयस्करो महान् ।
इहलोके परा कीर्तिः परत्र परमं सुखम् ॥

4429

आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनाय ॥

4430

आचारधाराधवलीकृतानां राधाधवाराधनमानसानाम् ।
विद्याविवेकोन्नतिभूषितानां भवादृशानामिह का प्रशंसा ॥

4431

आचारप्रभवो धर्मो नृणां श्रेयस्करो महान् ।
इहलोके परा कीर्तिः परत्र परमं सुखम् ॥

4432

आचारप्रेरको राजा ह्येतत् कालस्य कारणम् ।
यदि कालह् प्रमाणं हि कस्माद् धर्मोऽस्ति कर्तृषु ॥

4433

आचारमाचर चिराद् आलस्यमपास्य जात्युचितम् ।
लोकानुरागसाधनम् आराधनमेतदेव हरेः ॥

4334

आचारसंभवो धर्मो धर्माद् वेदाः समुत्थिताः ।
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ॥

4435

आचारहीनं न पुनन्ति वेदा यद्यप्यधीता सह षड्भिरङ्गैः ।
छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ॥

4436

आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः ।
कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ॥

4437

आचारात् फलते धर्म आचारात् फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥

4438

आचाराद् विच्युतो विप्रो न वेदफलमश्नुते ।
आचारेण तु संयुक्तः संपूर्णफलभाक् स्मृतः ॥

4439

आचाराल्लभते धर्मम् आचाराल्लभते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥

4440

आचाराल्लभते ह्यायुर् आचारादीप्सितां प्रजाम् ।
आचाराद् धनमक्षय्यम् आचारो हन्त्यलक्षणम् ॥

4441

आचाराल्लभते ह्यायुर् आचाराल्लभते श्रियम् ।
आचारात् कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥

4443

आचारो ग्रामवासान्तो गृहान्ता प्रभुता स्त्रियः ।
नृपश्रीर्ब्रह्मशापान्ता फलान्तं ब्रह्मवर्चसम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc