भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4444-4463

4444

आचार्यः सप्तयुद्धः स्याच् चतुर्युद्धस्तु भार्गवः ।
द्वाभ्यां चैव भवेद् योध एकेन गणको भवेत् ॥

4445

आचार्यः सर्वचेष्टासु लोक एव हि धीमतः ।
अनुकुर्यात् तमेवातो लौकिकार्थे परीक्षकः ॥

4446

आचार्यमानीय शुभेऽह्नि कार्यं पैष्टं श्वयुग्मं शुचिरर्चयित्वा ।
क्षीरेण भोज्यं भषणस्य तुष्ट्यै दद्यात् कुमारीशिशुबान्धवेभ्यः ॥

4447

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥

4448

आचार्या नरपतयश्च तुल्यशीला न ह्येषां परिचितिरस्ति सौहृदं वा ।
शुश्रूषां चिरमपि सम्चितां प्रयत्नात् संक्रुद्धा रज इव नाशयन्ति मेघाः ॥

4449

आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते ।
लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ॥

4450

आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता ।
तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥

4451

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥

4452

विषयेन्द्रियसंरोधस् तन्द्रालस्यविवर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥

4453

नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः ।
एतैरुपायैः संशुद्धः स हि योग्यमृतीभवेत् ॥

4454

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
भ्राता मरुत्पतेमूर्तिर् माता साक्षात् क्षितेस्तनुः ॥

4455

दयाया भगिनी मूर्तिर् धर्मस्यात्मातिथिः स्वयम् ।
अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥

4456

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिश्च भ्राता स्वो मूर्तिरात्मनः ॥

4457

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।
अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥

4458

आचार्यौ द्वारिहेतौ (?) शरकलशभरौ (?) द्रोणभूस्तत्समानो भीष्मस्तातस्य तातो धनुषि न सदृशाः कर्णदुर्योधनाद्याः ।
इत्थं हन्तव्यचिन्ताकुलहृदयतला कौरवाणां पुरस्ताद् दीव्यद्दोःस्तम्भशाली समिति विजयते पाण्डवह् खाण्डवारिः ॥

4459

आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमान् आरुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितार्द्रश्रिया ।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशाम् आनन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते ॥

4460

आचीर्णमशुभं कर्म द्विजा भोगाय कल्पते ।
अवेष्टितगलो नागः किमदष्ट्वा हि गच्छति ॥

4461

आचुम्बितं कामिवरेण हर्षात् सकामवामाचिबुकं मनोज्ञम् ।
शृङ्गारसत्संपुटपद्ममध्ये भृङ्गाभिधः (?) कोरकवद् विभाति ॥

4462

आचुम्ब्य बिम्बाधरमङ्गवल्लीम् आलिङ्ग्य संस्पृश्य कपोलपालिम् ।
श्रीखण्डमादाय करेण कान्तः संत्रासयामास सरोरुहाक्षीम् ॥

4463

आचूडमाचरणमम्ब तवानुवारम् अन्तःस्मरन् भुवनमङ्गलमङ्गमङ्गम् ।
आनन्दसागरतरङ्गपरम्पराभिर् आन्दोलितो न गणयामि गतान्यहानि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc