महासुभाषितसंग्रह · श्लोक 4403-4422
आग्नेय्यामनलाजी- विकयुवतिप्रवरधातुलाभश्च ।
याम्ये माषकुलत्थं भोज्यं गान्धर्विकैर्योगः ॥
आघट्टयति मन्त्राणि ब्रुवन् हास्यं प्रपद्यते ।
संभावयति दोषेण वृत्तिच्छेदं करोति च ॥
आघातं नीयमानस्य वध्यस्येव पदे पदे ।
आसन्नतरतां याति मृत्युर्जन्तोर्दिने दिने ॥
आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो रेवत्यां सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
श्वासामोदमदान्धषट्पदकुलव्यादष्टक् अण्ठस्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ॥
आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु ।
अस्या इवास्याश्चलदिन्द्रनील- गोलामलश्यामलतारतारम् ॥
आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन- श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः ।
मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद् यः शीर्षाणि कृपाणपाणिरलुनात् तस्मै नमः कल्किने ॥
आघ्रातं कमलं प्रियेण सुदृशा स्मित्वापनीतं मुखं दत्तं विभ्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ ।
दत्ता चम्पकमालिकोरसि भुजानिर्भिन्नरोमाञ्चया मीलल्लोचनया स्थितं प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥
आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद् भुवि नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहाद् अन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥
आघ्रातं मरणेन जन्म जरया यात्युज्ज्वलं यौवनं संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर् अस्थैर्येण विभूतिरप्यपहृता ग्रस्तं न किं केन वा ॥
आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुरुन्मुक्तकायः ।
पृष्ठान्तःपार्श्वकण्डूव्यपनयनर साद् द्विस्त्रिरुद्वर्तिताङ्गः प्रोत्थाय द्राङ् निरीहः क्षणमथ वपुरास्यानुपूर्व्यां धुनोति ॥
आघ्राय पुस्तकं धन्याः सर्वं विद्म इति स्थिताः ।
शतकृत्वोऽपि शृण्वन्तो हा न विद्मो जडा वयम् ॥
आघ्राय श्रमजमनिन्द्यगन्धबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् ।
आरण्याः सुमनस ईषिरे न भृङ्गैर् औचित्यं गणयति को विशेषकामः ॥
आघ्रायाघ्राय गन्धं विकृतमुखपुटो दर्शयन् दन्तपङ्क्तिं धावन्नुन्मुक्तनादो मुहुरपि रभसाकृष्टया पृष्ठलग्नः ।
गर्दभ्याः पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो वेगादारुह्यमुह्यन्नवतरति खरः खण्डितेच्छश्चिराय ॥
आचक्ष्महे बत किमद्यतनीमवस्थां तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
यत्रैव सप्त मुनयस्तपसा निषेदुः सोऽयं किलाद्य वसतिह् पिशिताशनानाम् ॥
आचम्याधरसिन्धुवारि कबरीसंभारसंमार्जिते स्वेदाम्भःस्नपिते कपोलविगलत्काश्मीरपङ्कोज्ज्वले ।
काञ्चीमन्त्ररुतेन निर्भरगलन्मुक्ताकलापस्रजा धन्यस्योरसि घूर्णमाननयना पञ्चेषुमभ्यर्चति ॥
आचरति दुर्जनो यत् सहसा मनसोऽप्यगोचरानर्थान् ।
तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम् ॥
आचरन् बहुभिर्वैरम् अल्पकैरपि नश्यति ।
जनैः प्रत्यायितोऽमात्यं प्रेतमित्यत्यजन्नृपः ॥
आचरेच्च सकलां रतिचर्यां कामसूत्रविहितामनवद्याम् ।
देशकालबलशक्त्यनुरोधाद् वैद्यतन्त्रसमयोक्त्यविरुद्धाम् ॥
आचान्तकान्तिरुन्निद्रैर् मयूखैरहिमत्विषः ।
धूसरापि कला चान्द्री किं न बध्नाति लोचनम् ॥
आचारं भजते त्यजत्यपि मदं वैराग्यमालम्बते कर्तुं वाञ्छति सङ्गभङ्गगलितोत्तुङ्गाभिमानं तपः ।
दैवन्यस्तविपर्ययैः सुखशिखाभ्रष्टः प्रणष्टो जनः प्रायस्तापविलीनलोहसदृशीमायाति कर्मण्यताम् ॥
आचारः कुलमाख्याति देशमाख्याति भाषणम् ।
संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0