भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4383-4402

4383

आगत्य सत्वरमसी रविरम्बरान्तम् उल्लास्य पादपतनैः स्फुटसांध्यरागः ।
पश्य प्रसादयति रागवतीं प्रतीची- दिक्कामिनीं प्रकुपितामिव मन्यमानः ॥

4384

आगत्यैव कुतश्चिदेव गगनाभोगं च कृत्वात्मसात् भावाभावविलोकनास्पदममून् नीत्वेन्दुमुख्यानपि ।
जाज्वल्यं जगतो विधाय किमपि प्राप्तः प्रियोऽह्नां पतिर् यात्वस्तं प्रविशत्वथाब्धिमथवा मेरौ परिभ्राम्यतु ॥

4385

आगन्तौ जाङ्घिके चैव सर्वे काकाः समाः स्मृताः ।
क्षेत्रजे शकुने ग्राह्यः काकोलस्तेषु सर्वदा ॥

4386

आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥

4387

आगमरूपविचारिण्य् अधिकरणसहस्रशिक्षितविपक्षे ।
स्वामिनिजैमिनियोगिन्य् उपरज्यति हृदयमस्मदीयमिदम् ॥

4388

आगमादेव नरकाः श्रूयन्ते रौरवादयः ।
विषयित्वं दरिद्राणां प्रत्यक्षं नरकं विदुः ॥

4389

आगमार्थं हि यतते रक्षणार्थं हि सर्वदा ।
कुटुम्बपोषणे स्वामी तदन्ये तस्करा इव ॥

4390

आगमिष्यन्ति ते भावा ये भावा मयि भाविनः ।
अहं तैरनुसर्तव्यो न तेषामन्यतो गतिः ॥

4391

आगमेन च युक्त्या च योऽर्थः समभिगम्यते ।
परीक्ष्य हेमवद् ग्राह्यः पक्षपातग्रहेण किम् ॥

4392

आगमे यस्य चत्वारि निर्गमे सार्धपञ्च च ।
अतिविस्तारविस्तीर्णाश् चिरं तिष्ठन्ति नो श्रियः ॥

4393

आगमोऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ।
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥

4394

आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरं ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुत्तम्भयन् ।
वेल्लद्भैरवरुण्डमुण्डनिकरैर्वीरो विधत्ते भुवं तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ॥

4395

आगर्भमाबद्धममर्षशीलः पितुः स्मरन् क्षत्रकृतापराधम् ।
परश्वधेनैव भृगुप्रवीरः प्राणैर्वियोज्यापि रिपूंश्छिनत्ति ॥

4396

आ गर्भाद् आ कुलपरिवृढाद् आ चतुर्वक्त्रतोऽपि त्वत्पादाब्जप्रपदनपरान् वेत्सि नश्चन्द्रमौले ।
मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ स्वामिन्नेवं सति यदुचितं तत्र देवः प्रमाणम् ॥

4397

आगस्कारिणि कैटभप्रमथने तत्ताडनार्थं रुषा नाभीपङ्कजमस्त्रतां गमयितुं जाते प्रयत्ने श्रियः ।
स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षण् आद अब्रह्मण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ॥

4398

आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥

4399

आगुल्फमालम्बितवल्गुवेणी विभाति बाला कनकाङ्गयष्टिः ।
उत्तीर्णमौर्वीव वशीकृतोर्वी मनोभुवश्चम्पकचापवल्ली ॥

4400

आग्नेयास्त्रप्रवीणप्रबलमृगभटाः शत्रुसंक्षोभदक्षा यस्य प्रौढप्रतापानलबहलशिखास्विन्धनत्वं प्रयान्ति ।
सोऽयं प्राचीपयोधिप्रहितकरततीतूर्णसंपूर्णकोपो बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्ति प्ररोहः ॥

4401

आग्नेयीमेति शीतादिव दिशमरुणो वासराः संकुचन्ती- वासंस्तर्षेऽपि तोयाद् वहति तनुशिखी शीतपीडां प्रमार्ष्टि (?) ।
तल्पेऽनल्पप्रकोपप्रविदलितदृढालिङ्गनग्रन्थिबन्धे लब्ध्वा संधानरन्ध्रं निबिडयति जडो दम्पती मातरिश्वा ॥

4402

आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।
नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc