महासुभाषितसंग्रह · श्लोक 4363-4382
आख्यास्तदीया रुचिरार्थपोषा गायन्ति कोशाधिकृताः सतोषाः ।
परंतु पुण्यैरिह हर्षधाम प्राप्तं त्वया संप्रति चूतनाम ॥
आगच्छतां च तुच्छानाम् अतुच्छानां च गच्छताम् ।
यदध्वनि न संघट्टो घटानां तद् वृथा सरः ॥
आगच्छतानवेक्षित- पृष्ठेनार्थी वराटकेनेव ।
मुषितास्मि तेन जघनां- शुकमपि वोढुं नशक्तेन ॥
आगच्छदुत्सवो भाति यथैव न तथा गतः ।
हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥
आगच्छदुर्वीन्द्रचमूसमुत्थैर् भूरेणुभिः पाण्डुरिता मुखश्रीः ।
विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपम् ॥
आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च स्वारब्धं मधुमक्षिकां न कणमप्यस्य स्वयं भुञ्जते ।
धन्यस्त्वन्य उपेत्य निर्भयममूरुत्सारयन् दूरतः स्वादंस्वादमिदं स्वसंभृतमिव स्वच्छन्दमानन्दति ॥
आगच्छन् सूचितो येन येनानीतो गृहं प्रति ।
प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ॥
आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टम् ।
संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योऽन्यमेवं प्रतीच्छन् वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ॥
आगच्छामि झटित्यहं प्रियतमे कार्यं विधायाल्पकं गत्वेतस्त्वमिहैव तिष्ठ विजने तावद्गृहे सुन्दरे ।
इत्युक्त्वा सखि वञ्चकः स तु गतस्तत्र स्थिता या निशा सर्वा सा हि गता ममातिकुटिलो नो वै तथाप्यागतः ॥
आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य ह्यनित्यत्वाद् रभसेन न संपतेत् ॥
आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीम् ।
कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥
आगतः पाण्डवाः सर्वे दुर्योधनसमीहया ।
तस्मै गां च सुवर्णं च रत्नानि विविधानि च ॥
आगतव्ययशीलस्य कृशत्वमतिशोभते ।
द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥
आगतश्च गतश्चैव गत्वा यः पुनरागतः ।
अकर्णहृदयो मूर्खस् तत्रैव निधनं गतः ॥
आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् ।
प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥
आगतानामपूर्णानां पूर्णानामपि गच्छताम् ।
यदध्वनि न संघट्टो घटानां तत् सरोऽवरम् ॥
आगते कुसुमधन्विनि तन्व्या मानसाद् बहिरभूत् कुचकोकः ।
तिष्ठतास्य सरसीरुहचक्षुः खञ्जनेन चकितं सहसैव ॥
आगत्य प्रणिपातसान्त्वितसखीदत्तान्तरे सागसि स्वैरं कुर्वति तल्पपार्श्वनिभृते धूर्तेऽङ्गसंवाहनम् ।
ज्ञात्वा स्पर्शवशात् तया किल सखीभ्रान्त्या स्ववक्षः शनैः खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ॥
आगत्य संप्रति वियोगविसंष्ठुलाङ्गीम् अम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥
आगत्य सम्प्रति शरत्समयः प्रसादाद् ईषद्विहस्य विकसत्कुमुदच्छलेन ।
उत्सार्य रोषमिव वारिधरोपरोधम् एष प्रसादयति दिग्वनितामुखानि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0