भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4223-4242

4223

आकरः कारणं जन्तोर् दौर्जन्यस्य न जायते ।
कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ॥

4224

आकरः सर्वशास्त्राणां रत्नानामिव सागरः ।
गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥

4225

आकरप्रभवः कोशः कोशाद्दण्डः प्रजायते ।
पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ॥

4226

आकर्णपलितः श्यामो वयसाशीतिपञ्चकः ।
रणे पर्यचरद् द्रोणो वृद्धः षोडशवर्षवत् ॥

4227

आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा ।
शैवालपङ्क्तिरिव संततनिर्जिहान- कारुण्यपूरपदवी कलितानुबन्धा ॥

4228

आ कर्णमूलमपकृत्य धनुः सबाणं मय्येव किं प्रहरसि स्मर बद्धकोपः ।
तस्यां मुहुः क्षिप शरान् हरिणेक्षणायां तन्मन्मथोऽपि भव मन्मथ एव मा भूः ॥

4229

आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् ।
तस्याप्यसंख्यभवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥

4230

आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ॥

4231

आकर्णान्तविसर्पिणः कुवलयच्छायामुषश्चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं संभ्रमेणामुना ।
मुग्धे केवलमेतदाहितनखोत्खाताङ्कमुत्पांशुलम् बाह्वोर्मूलमलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् ॥

4232

आकर्णितानि रसितानि यया प्रसर्पत् प्रद्युम्नराजरथनिःस्वनसोदराणि ।
उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्रं प्रियं कुपितयापि तयाभिसस्रे ॥

4233

आकर्ण्य गर्जितं घोरं जलदानां समागमे ।
बाला विधूतलज्जेव सत्रासं श्लिष्यति प्रियम् ॥

4234

आकर्ण्य गर्जितरवं घनगर्जितुल्यं सिंहस्य यान्ति वनमन्यदिभा भयार्ताः ।
तत्रैव पौरुषनिधिः स्वकुलेन सार्धं दर्पोद्धुरो वसति वीतभयो वराहः ॥

4235

आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः ।
बालिशाः कालिदासाय स्पृहयन्तु वयं तु न ॥

4236

आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा मन्दं मन्दं ग्रसति नियतः कालपाशोऽपि कण्ठे ।
आपृच्छ्यन्ते कृतजिगमिषासंभ्रमाः प्राणवाता नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥

4237

आकर्ण्य भूपाल यशस्त्वदीयं विधूनयन्तीह न के शिरांसि ।
विश्वंभराभङ्गभयेन धात्रा नाकारि कर्णौ भुजगेश्वरस्य ॥

4238

आकर्ण्य मामवादीद् धन्यास्ता युवतयः सखि कठोराः ।
या विषहन्ते दीर्घ- प्रियतमविरहानलासारम् ॥

4239

आकर्ण्य वाणीः पौराणीर् मयैतदवधारितम् ।
तिष्ठन्तु देवा देव्योऽपि सेव्यो नारायणः परः ॥

4240

आकर्ण्य वारवनितापठितं सभायां संपूरणं सपदि पादमुदारभावः ।
यः कालिदासमरणं हृदि निश्चिकाय भोजः स एव परमं भुवि भावबोद्धा ॥

4241

आकर्ण्य संगरमहार्णवचेष्टितानि गोष्ठीरसाहृतजनस्य मनोविकारः ।
अङ्गे करोति पुलकं नयने विकाशं कान्तिं च कामपि मुखे स्फुरणं च बाह्वोः ॥

4242

आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् ।
उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रितान् वसुमती दध्रे शिलीन्ध्रध्वजान् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc