महासुभाषितसंग्रह · श्लोक 4203-4222
अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां प्रतिज्ञातत्यागो नहि भवति कृच्छ्रेऽपि महति ।
तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्- कटाहोऽपि स्वाङ्गं किमु कमठनाथश्चलयति ॥
अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥
अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित् पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ॥
अह्नस्त्रिश्चतुरम्बुभिः स्नपयसि स्वं पुष्करावर्जितैर् भुङ्क्षे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च ।
पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर ज्ञानं चेत् कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ॥
अह्नि भास्करमिच्छन्ति रात्रावमृततेजसम् ।
अह्नि रात्रौ च राजानम् इच्छन्ति गुणिनं प्रजाः ॥
अह्नि रविर्दहति त्वचि वृद्धः पुष्पधनुर्दहति प्रबलोढम् ।
रात्रिदिनं पुनरन्तरमन्तः संवृतिरस्ति रवेर्न तु कन्तोः ॥
आं ज्ञातं नृपते त्वमेव निखिलां नित्यं बिभर्षि क्षितिं शैलेन्द्राः स्वयमेव दुर्भरभरास्तैः प्रत्युताधो व्रजेत् ।
अस्याश्चोद्धरणे क्षमोऽपि न परस्त्वत्तो वराहादिकः पश्वादेर्भरणक्रियानिपुणता नैव प्रभागोचरः ॥
आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् ।
यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित- स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥
आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तैर् विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटम् ।
संविष्टंशठगाढमूढवदने धूत्कारदूरीकृतं किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोदिति ॥
आः कष्टमप्रःऋष्टाः शिष्टा अपि वित्तचापलाविष्टाः ।
अध्यापयन्ति वेदान् आदाय चिराय मासि मासि भृतिम् ॥
आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम् ।
इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ॥
आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा ।
निर्गच्छ त्वरितं गृहाद् बहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं जारस्य भाग्योदयः ॥
आः पात्री स्यामकृतकघनप्रेमविस्फारितानां सव्रीडानां सकलकरणानन्दनाडिंधमानाम् ।
तेषां तेषां हृदयनिहिताकूतनिष्यन्दिनेत्र- व्यापाराणां पुनरपि तथा सुभ्रुवो विभ्रमाणाम् ॥
आः सर्वतः स्फुरतु कैरवमापिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः ।
यातो यदेष चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः ॥
आः सीते पतिगर्वविभ्रमभरभ्रान्तभ्रमद्बान्धव- प्रध्वंसस्मितकान्तिमत् तव तदा जातं यदेतन्मुखम् ।
संप्रत्येव हठात् तदेष कुरुते केशोच्चयाकर्षण- त्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ॥
आकण्ठदृष्टशिरसाप्यविभाव्यपार्श्व- पृष्ठोदरेण चिरमृग्भिरुपास्यमानः ।
नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः ॥
आकण्ठार्पितकञ्चुकाञ्चलमुरो हस्ताङ्गुलीमुद्रणा- मात्रासूत्रितहास्यमास्यमलसाः पञ्चालिकाकेलयः ।
तिर्यग्लोचनचेष्टितानि वचसां च्छेकोक्तिसंक्रान्तयस् तस्याःसीदति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥
आकम्पयन् फलभरानतशालिजालम् आनर्तयंस् तरुवरान् कुसुमावनम्रान् ।
उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् यूनां मनश्चलयति प्रसभं नभस्वान् ॥
आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य ।
वीर्येण संहतिभिदा विहतोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ॥
आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः ।
संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0