भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 4243-4262

4243

आकर्ण्याम्रफलस्तुतिं जलमभूत् तन्नारिकेलान्तरं प्रायः कण्टकितं तथैव पनसं जातं द्विधोर्वारुकम् ।
आस्तेऽधोमुखमेव कादलफलं द्राक्षाफलं क्षुद्रतां श्यामत्वं बत जाम्बवं गतमहो मात्सर्यदोषादिह ॥

4244

आकर्षतेवोर्ध्वमतिक्रशीयान् अत्युन्नतत्वात् कुचमण्डलेन ।
ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥

4245

आकर्षन्ति न केषाम् अन्तःकरणं प्रवालशालिन्यः ।
ललना इवात्र लतिकाः कुसुमेषु शिलीमुखैर्निचिताः ॥

4246

आकर्षन्निव गां वमन्निव खुरान् पश्चार्धमुज्झन्निव स्वीकुर्वन्निव खं पिबन्निव दिशश्छायाममर्षन्निव ।
साङ्गारप्रकरां स्पृशन्निव धरां वातं समश्नन्निव श्रीमन्नाथ स वाजिराट् तव कथं मादृग्गिरां गोचरः ॥

4247

आकर्षेत् कैशिकव्याये न शिखां चालयेत् ततः ।
पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ॥

4248

आकलितोरुक्रमपद- पद्मालंकृत्यनल्पपुण्यभवम् ।
निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरम् ॥

4249

आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी- धीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः ।
लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा- दायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति ॥

4250

आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्य्- अम्भोधौ कलयत्यगाधजठरे कस्तावकीनं श्रमम् ।
अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत् किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥

4251

आकाल्प्य तल्पं शशिकान्तिकल्पम् उद्ग्रथ्य वीटीः सुरपुष्पगर्भाः ।
द्वारे दृगन्तान् परिकल्पयन्ती मनो मनोजस्य चमच्चकार ॥

4252

आ कल्याद् आ निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे ।
न च निर्वृणुमो जातु शान्तास्तु सुखमासते ॥

4253

आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणयनिह्नवमाचरन्ती ।
तत्रैव रङ्कुनयना नयनारविन्दम् अस्पन्दमाहितवती दयिते गतेऽपि ॥

4254

आकाङ्क्षिणं क्ष्मापतिमन्दिराणि प्रविश्य पातालसहोदराणि ।
अधोगतेर्नान्यदुपार्जयन्ति फलं भुजङ्गा इव वायुभक्ष्याः ॥

4255

आकाङ्क्षोच्चपदेऽहमात्मकमतिः कार्ये मनोधारणा इत्येवंविधभावजातमुचितं धर्तुं न चित्तान्तरे ।
वैषम्यस्य निवारणाय मृगयेस्तत्कारणं नापरे स्वात्मन्येव गवेषयेत्यतितरां श्रेयस्करं ते सदा ॥

4256

आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलम् ।
मन्त्रिप्रोक्तनिषेविणां क्षितिभुजामाशङ्किनां सर्वतो दुःखाम्भोनिधिवर्तिनां सुखलवः कान्तासमालिङ्गनम् ॥

4257

आकारः कमनीयताकुलगृहं लीलालसा सा गतिः संपर्कः कमलाकरैः कलतया लोकोत्तरं कूजितम् ।
यस्येयं गुणसंपदस्ति महती तस्यापि भव्यस्य ते संरब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे ॥

4258

आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः ।
एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयम् ॥

4259

आकारणाय मान्त्रिकम् आगतदूतस्य वचनमादाय ।
कृत्वा प्रमाणमादाव् अभिमन्त्र्य च तत्र मन्त्रण ॥

4260

आकारदारुणोऽयं भयमस्मादित्यनिश्चयोऽयमपि ।
भवति महाभैरवमपि शिवस्य रूपं शिवायैव ॥

4261

आकारपरिवृत्तिस्तु बुद्धेः परिभवः पुनः ।
आशाहानिरिवार्थित्वं परासुत्वमिवापरम् ॥

4262

आकारमात्रविज्ञानसंपादितमनोरथाः ।
धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc