महासुभाषितसंग्रह · श्लोक 3943-3962
अस्मिन्नीषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः पुञ्जितश्चोत्थितश्च ।
धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ॥
अस्मिन् परस्परद्वेषपरुषे पुरुषायुषे ।
केवलं मधुरा वाणी ददात्यानीय सौहृदम् ॥
अस्मिन् प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ्मणिविभूषणरश्मिजालैः ।
पातालमुद्यतफणाकृतिशृङ्गकोऽयं मामद्य संस्मरयतीव भुजङ्गलोकः ॥
अस्मिन् प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मथी दृष्टिः ।
सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥
अस्मिन् भूवलये जनस्य महिमा भाग्येन संजायते नो तत्रास्ति हि कारणं प्रयतता नैवाथ कश्चिद् गुणः ।
काकायाशुचिभोजिने हि वितरत्युच्चैस्तु लोको बलिं मुक्ताहारपरायणाय शुचये नो हन्त हंसाय यत् ॥
अस्मिन् मरौ किमपरं वचसामवाच्यं मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः ।
एतत् त्वया जललवामिषलालसेन दृष्टं ज्वलत्परिकरं सिकतावितानम् ॥
अस्मिन् महत्यनवधौ किल कालचक्रे धन्यास्तु ये कतिपये शुकयोगिमुख्याः ।
लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्त्वास् तानात्मनस्तव नखानवधारयामः ॥
अस्मिन् महामोहमये कटाहे सूर्याग्निना रात्रिदिनेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥
अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि निरन्नया तदधुना किंचिन् मुखे दीयताम् ।
इत्युक्ते जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्च धाराश्रुभिः ॥
अस्मिन् वसन्ते न नराः सहन्ते वधूवियोगं च बलासरोगम् ।
कुरङ्गनाभिद्रवलेपभाभिर् भजन्तु दृप्ताः प्रमदाः प्रलिप्ताः ॥
अस्मिन् सखे ननु मणित्वमहासुभिक्षे चिन्तामणे त्वमुपलो भव मा मणिर्भूः ।
अद्येदृशा हि मणयः प्रभवन्ति लोके येषां तृणग्रहणकौशलमेव भूषा ॥
अस्मिन् स्थिते विपदभूद् इति संचिन्त्य वर्ज्यते ।
मूढैः परिवृढैरापत्सेवको मङ्गलेच्छुभिः ॥
अस्मि वीरजननीति जनन्याम् अस्मि वीररमणीति रमण्याम् ।
संमदं व्यदधदुत्सुकचेतास् तारतूर्यतरलश्चलितोऽन्यः ॥
अस्मि वीरतनया वरवीर- प्रेयसी च कुरु वीरसवित्रीम् ।
अद्य हृद्यसमरैरिति माता काचिदाह तिलकाक्षतपूर्वम् ॥
अस्मै करं प्रवितरन्तु नृपा न कस्माद् अस्यैव तत्र यदभूत् प्रतिभूः कृपाणः ।
दैवाद् यदा प्रवितरन्ति न ते तदैव नेदंकृपा निजकृपाणकरग्रहाय ॥
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान् मूकानां प्रकरेण कूर्मरमणीदुग्धोदधेः रोधसि ॥
अस्यत्युच्चैः शकलितवपुश्चन्दनो नात्मगन्धं नेक्षुर्यन्त्रैरपि मधुरतां पीड्यमानो जहाति ।
यद्वत् स्वर्णं न चलति हितं छिन्नघृष्टोपतप्तं तद्वत् साधुः कुजननिहतोऽप्यन्यथात्वं न याति ॥
अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः ।
वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे ॥
अस्य प्रचण्डभुजदण्डभवः कृशानुश् चण्डांशुचण्डकरजित् सुमहाप्रतापः ।
प्रत्यर्थिभूपतिपलाशवनं विदह्य प्रौढासु दिक्षु बहुदाहमुरीकरोति ॥
अस्य प्रयाणेषु समग्रशक्तेर् अग्रेसरैर्वाजिभिरुत्थितानि ।
कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0