भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3923-3942

3923

अस्माभिः स्मयलोलमौलिफलकैर्मुक्ताविसाराधिपं वेदोद्धारपरः करस्तव परं दानाम्बुपूतः स्तुतः ।
किन्तु क्ष्मातिलक क्षमस्व कविभिः किं नाम नालोक्यते दृष्टः स्पष्टतरं तवापि निभृतः पाणौ स वैसारिणः ॥

3924

अस्माभिश्चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर्न स कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः ।
यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणमेकमर्धमथवा निःश्वस्य विश्राम्यते ॥

3925

अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् ।
तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥

3926

अस्मिंश्चन्द्रमसि प्रसन्नमहसि व्याकोषकुन्दत्विषि प्राचीनं खमुपेयुषि त्वयि मनाग्दूरं गते प्रेयसि ।
श्वासः कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो दृगपि च द्राक् चन्द्रकान्तीयति ॥

3927

अस्मिंस्ते शिरसि तदा कान्ते वैदूर्यस्फटिकसुवर्णाढ्ये ।
शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥

3928

अस्मिञ् जगति महत्यपि किमपि न तद्वस्तु वेधसा विहितम् ।
अनिमित्तवत्सलाया भवति यतो मातुरुपकारः ॥

3929

अस्मिञ् जडे जगति को नु बृहत्प्रमाण- कर्णः करी ननु भवेद् दुरितस्य पात्रम् ।
इत्यागतं तमपि योऽलिनमुन्ममाथ मातङ्ग एव किमतःपरमुच्यतेऽसौ ॥

3930

अस्मिञ् जरामरणमृत्युमहातरङ्ग- मिश्रोदधौ महति संपरिवर्तमानः ।
पुण्यप्लवेन सुकृतेन नरास्तरन्तः संप्राप्य तीरमभयं सुखमाप्नुवन्ति ॥

3931

अस्मिन् कः प्रभवेद्योगो ह्यसंधार्येऽमितात्मनि ।
लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम् ॥

3932

अस्मिन् करीन्द्रकरनिर्गलितारविन्द- कन्दानुकारिणि चिरं रुचिचक्रवाले ।
कस्मै फलाय कुलटाकुलकोटिहोमं हंहो मृगाङ्क कुरुषे करुणामपास्य ॥

3933

अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् ।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥

3934

अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् ।
तस्मिन् राधासखो वः सुखयतु विलसन् क्रीडया कैटभारिर् व्यातन्वानो मृगारिप्रबलवुरघुरारावरौद्रोच्चनादान् ॥

3935

अस्मिन् कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि ।
हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥

3936

अस्मिन् केलिवने सुगन्धपवने क्रीडत्पुरंध्रीजने गुञ्जद्भृङ्गकुले विशालबकुले कूजत्पिकीसंकुले ।
उन्मीलन्नवपाटलापरिमले मल्लीप्रसूनाकुले यद्येकापि न मालती विकसिता तत्किं न रम्यो मधुः ॥

3937

अस्मिन् दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायति कम्पं सात्त्विकभावञ्चति रिपुक्षोणीन्द्रदारा धरा ।
अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ॥

3938

अस्मिन् नक्तमहर्विवेकविकले कालाधमे नीरदैः संनद्धैरभितो निरुद्धगगनाभोगासु दिग्भित्तिषु ।
भानोर्न प्रसरन्तु नाम किरणाः किं त्वस्य तेजस्विनः सत्तामात्रपरिग्रहेण विकसन्त्यद्यापि पद्माकराः ॥

3939

अस्मिन्नगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥

3940

अस्मिन्नभ्युदिते जगत्त्रयदिशामुल्लासहेतौ दिशाम् आस्यम्लानिहरे सुधारसनिधौ देवे निशास्वामिनि ।
वक्त्रं मुद्रितमम्बुजन्म भवता चेत् किं ततः शाश्वतं नैतस्येश्वरमौलिमण्डनमणेर्गायन्ति विश्वे यशः ॥

3941

अस्मिन् न निर्गुणं गोत्रे अपत्यमुपजायते ।
आकरे पद्मरागाणां जन्म काचमणेः कुतः ॥

3942

अस्मिन्नम्भोदवृन्दध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काक व्याकुलो भूस्तरुशिरसि शवक्रव्यलेशानशान ।
धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद् ग्रासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंहः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc