भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3963-3982

3963

अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् ।
शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्रकैः ॥

3964

अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् ।
इदं च मुखमाधुर्यं कथं दूषितमग्निना ॥

3965

अस्यां नेत्रपथं मन्ये गतायां लोलचक्षुषि ।
भवन्ति पञ्चबाणस्य स्वबाणा एव वैरिणः ॥

3966

अस्यां प्रावृषि चातकैर्जलकणा लब्धा न चेत् किं ततो भाविप्रावृषि दास्यते द्विगुणमित्यभ्र त्वया गम्यते ।
एतेऽद्यैव लयं व्रजन्ति पृथुकैरेतत् कुलीनो न चेद् एकः प्राणिति तावतैव कृतमस्त्यत्रैव नः संशयः ॥

3967

अस्यां मुनीनामपि मोहमूहे भृगुर्महान् यत्कुचशैलशीली ।
नानारदाह्लादि मुखं श्रितोरुर् व्यासो महाभारतसर्गयोग्यः ॥

3968

अस्यां वपुर्व्यूहविधानविद्यां किं द्योतयामास नवां स कामः ।
प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ॥

3969

अस्यां सखे बधिरलोकनिवासभूमौ किं कूजितेन खलु कोकिल कोमलेन ।
एते हि दैवहतकास्तदभिन्नवर्णं त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥

3970

अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगाताम् ।
तेनायमेभिः किमपूजि पुष्पैर् अभर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥

3971

अस्याः कररुहखण्डित- काण्डपटप्रकटनिर्गता दृष्टिः ।
पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ॥

3972

अस्याः करस्पर्धनगर्धनर्द्धिर् बालत्वमापत् खलु पल्लवो यः ।
भूयोऽपि नामाधरसाम्यगर्वं कुर्वन् कथं वास्तु न स प्रवालः ॥

3973

अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् ।
तथैव शोभतेऽत्यर्थम् अस्याः श्रवणकुण्डलम् ॥

3974

अस्याः कान्तस्य रूपस्य सवौपम्यातिशायिनः ।
एकैव गच्छेत् सादृश्यं स्वच्छाया दर्पणाश्रिता ॥

3975

अस्याः कामनिवासरम्यभवनं वक्त्रं विलोक्यादरान् निश्चित्येव सुधाकरं प्रियतमं भूमीगतं शोभनम् ।
नासामौक्तिककैतवेन रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृदया तत्संनिधिं सेवते ॥

3976

अस्याः कुशेशयदृशः शशिशुभ्रशुभ्रं नासाग्रवर्ति नवमौक्तिकमाचकास्ति ।
कैलासमानससरोवरराजहंस्या निःक्षिप्तमण्डमिव जाग्रति पुण्डरीके ॥

3977

अस्याः खलु ग्रन्थिनिबद्धकेश- मल्लीकदम्बप्रतिबिम्बवेषात् ।
स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्टिकायाम् ॥

3978

अस्याः पदौ चारुतया महन्ताव् अपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥

3979

अस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ निर्धौतोऽधरशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैर्दृशोर् एभिः कामशरैस्तदद्भुतमभूद् यन्मे मनः कीलितम् ॥

3980

अस्याः पीठोपविष्टाया अभ्यङ्गं वितनोत्यसौ ।
लसच्छ्रोणि चलद्वेणि नटद्गुरुपयोधरम् ॥

3981

अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्तु नः ॥

3982

अस्याः संयमवान् कचो मधुकरैरभ्यर्थ्यमानो मुहुर् भृङ्गीगोपनजाभिशापमचिरादुन्मार्ष्टुकामो निजम् ।
सीमन्तेन करेण कोमलरुचा सिन्दूरबिन्दुच्छलाद् आतप्तायसपिण्डमण्डलमसावादातुमाकाङ्क्षति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc