भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3423-3442

3423

अवैमि चैनामनघेति किं तु लोकापवादो बलवान् मतो मे ।
छाया हि भूमेः शशिनो मलत्वे- नारोपिता शुद्धिमतः प्रजाभिः ॥

3424

अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥

3425

अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ।
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥

3426

अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥

3427

अवैमि हंसावलयो वलक्षास् त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।
उड्डीय युक्तं पतिताः स्रवन्ती- वेशन्तपूरं परितः प्लवन्ते ॥

3428

अवैष्णवो हतो विप्रो हतं श्राद्धमदक्षिणम् ।
अब्रह्मण्यं हतं क्षेत्रम् अनाचारं कुलं हतम् ॥

3429

अव्यक्तमक्षरमुपास्य बभूव कश्चित् स्वं लब्धवर्णमवगत्य कृतार्थमानी ।
सद्यस्त्रिभङ्गललितस्फुरणादमन्द- नन्दोत्थया जडतयैव वयं कृतार्थाः ॥

3430

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥

3431

अव्ययवतोऽपि धनिनः स्वजनसहस्रं भवेत् पदस्थस्य ।
भ्रष्टधनस्य हि सततं बन्धुरपि मुखं न दर्शयति ॥

3432

अव्यये व्ययमायाति व्यये याति सुविस्तरम् ।
अपुर्वः कोऽपि भाण्डारस् तव भारति दृश्यते ॥

3433

अव्यवसायिनमलसं दैवपरं सहसाच्च परिहीणम् ।
प्रमदेव हि वृद्धपतिं नेच्छत्यवगूहितुं लक्ष्मीः ॥

3434

अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः ।
व्यवस्थितप्रसन्नात्मा कुपितोऽप्यभयंकरः ॥

3435

अव्यवस्थितवृत्तानाम् अभिन्नश्रुतिचक्षुषाम् ।
अधर्मार्जितभोगानाम् आशीरप्यहितोचिता ॥

3436

... ... ... ... ... ... ।
अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ॥

3437

अव्याकरणमधीतं भिन्नद्रोण्या तरङ्गिणीतरणम् ।
भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतम् ॥

3438

... ... ... ... ... ... ।
अन्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥

3439

अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् ।
तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥

3440

अव्याजसुन्दरमनुत्तरमप्रमेयम् अप्राकृतं परममङ्गलमङ्घ्रिपद्मम् ।
संदर्शयेदपि सकृद्भवती दयार्द्रा द्रष्टास्मि केन तदहं तु विलोचनेन ॥

3441

अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥

3442

अव्यात् स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् ।
जटापिनद्धोरगराजरत्न- मरीचिलीढोभयकोटिरिन्दुः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc