भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3403-3422

3403

अविश्राममपाथेयम् अनालम्भमदेशकम् ।
तमःकान्तारमध्वानं कथमेको गमिष्यसि ॥

3404

अविश्वसन् धूर्तधुरंधरोऽपि नरः पुरंध्रीपुरतोऽन्ध एव ।
अशेषशिक्षाकुशलोऽपि काकः प्रतार्यते किं न पिकाङ्गनाभिः ॥

3405

अविश्वस्ता स्त्रियः सर्वा अधमोत्तममध्यमाः ।
यः कश्चिद् विश्वसेत् तासां पश्चात्तापैः स दह्यते ॥

3406

अविश्वासं सदा तिष्ठेत् संधिना विग्रहेण च ।
द्वैधीभावं समाश्रित्य पापे शत्रौ बलीयसि ॥

3407

अविश्वासविधानाय महापातकहेतवे ।
पितापुत्रविरोधाय हिरण्याय नमोऽस्तु ते ॥

3408

अविषं विषमित्याहुर् ब्रह्मस्वं विषमुच्यते ।
विषं हन्ति किलैकं च ब्रह्मस्वं पुत्रपौत्रकम् ॥

3409

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
अपि संक्षीणकोशोऽपि लभते परिवारणम् ॥

3410

अविसंवादनं दानं समयस्याव्यतिक्रमः ।
आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥

3411

अविसृष्टोऽपि सन् प्राज्ञः सर्वेण च समं व्रजेत् ।
प्रविशेदप्यनाहूतस् त्वन्यदा भर्त्तुराज्ञया ॥

3412

अविस्मृतोपकारः स्यान् न कुर्वीत कृतघ्नताम् ।
हत्वोपकारिणं विप्रो नाडीजङ्घमधश्च्युतः ॥

3413

अवीरोऽपि चमूवीरसाहाय्येन द्विषो जयेत् ।
चमूसाहाय्यशून्यानां जयश्रीर्व्याकुलायते ॥

3414

अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नितय्ं क्षमा क्रोधम् आचारो हन्त्यलक्षणम् ॥

3415

अवृत्तिकं त्यजेद् देशं वृत्तिं सोपद्रवां त्यजेत् ।
त्यजेन् मायाविनं मित्रं धनं प्राणहरं त्यजेत् ॥

3416

अवृत्तिकं प्रभुं भृत्या अपुष्पं भ्रमरास्तरुम् ।
अजलं च सरो हंसा मुञ्चन्त्यपि चिरोषितम् ॥

3417

अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद् भयम् ।
उत्तमानां तु मर्त्यानाम् अवमानात् परं भयम् ॥

3418

अवृत्तिव्याधिशोकार्तान् अनुवर्तेत शक्तितः ।
आत्मवत्सततं पश्येद् अपि कीटपिपीलकाः ॥

3419

अवेक्श्य स्वात्मानं विगुणमपरानिच्छति तथा फलत्येतन्नो चेद् विलपति न सन्तीह गुणिनः ।
निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततोऽप्य् अहो नीचे रम्या सगुणविजिगीषा विधिकृता ॥

3420

अवेमव्यापाराकलनमतुरीस्पर्शमचिराद् अनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् ।
विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां निर्माणं पतगपतिकेतोरवतु नः ॥

3421

अवैति तत्त्वं सदसत्त्वलक्षणं विना विशेषं विपरीतरोचनः ।
यदृच्छया मत्तवदस्तचेतनो जनो जिनानां वचनात् पराङ्मुखः ॥

3422

अवैतु शास्त्राणि नरो विशेषतः करोतु चित्राणि तपांसि भावतः ।
अतत्त्वसंसक्तमनास्तथापि नो विमुक्तिसौख्यं गतबाधमश्नुते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc