महासुभाषितसंग्रह · श्लोक 3443-3462
अव्यात् स्वर्लोकचूडामणिपटलशिखाश्रेणिशोणीकृताङ्घ्रिः क्षोणीभारं विनेतुं जठरजुषि जगद्बान्धवे देवकी वः ।
राज्ञामुद्दामदोष्णां रणशिरसि रणत्कीकसच्छेदभीमाः शस्त्राणां खण्णकाराः प्रतिहतिगुरवो यच्छ्रुतेर्दोहदोऽभूत् ॥
अव्याद् वो वज्रसारस्फुरदुरुनखरक्रूरचक्रक्रमाग्र- प्रोद्भिन्नेन्द्रारिवक्षःस्थलगलदसृगासारकाश्मीरगौरः ।
प्रस्फूर्जत्केशराग्रग्रथितजलधरश्रेणिनीलाब्जमाल्यः सूर्याचन्द्रावतंसो नरहरिरसमाबद्धशृङ्गारलीलः ॥
अव्याद् वो वलिताङ्घ्रिपातविचलद्भूगोलहेलोन्मुख- भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः ।
यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस् ताराचक्रमुदक्तशीकरपृषल्लीलामिवाभ्यस्यति ॥
अव्याद् वो वामनो यस्य कौस्तुभप्रतिबिम्बिता ।
कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥
अव्याधिगात्रमनुकूलतरं कलत्रं वेश्म प्रसिद्धविभवं निशिता च विद्या ।
श्लाघ्यं कुलं चरमकालगतिः समर्थो मातुः कटाक्षपरिणामविभूतयस् ते ॥
अव्याधिजं कटुकं शीर्षरोगं पापानुबन्धं परुषं तीक्ष्णमुग्रम् ।
सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥
अव्याधिना शरीरेण मनसा च निराधिना ।
पूरयन्नर्थिनामाशां त्वं जीव शरदां शतम् ॥
अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पटीव वानरः ॥
अव्यापाररता वसन्तसमये ग्रीष्मे व्यवायप्रियाः सक्ताः प्रमृषि पल्वलाम्भसि नवे कूपोदकद्वेषिणः ।
कट्वम्लोष्णरताः शरद्यधिभुजो हेमन्तनिद्रालसाः स्वैर्दोषैरपचीयमानवपुषो नश्यन्तु ते शत्रवः ॥
अव्याहति न शक्या गौर् विना दण्डेन रक्षितुम् ।
इति प्रत्येति मुग्धोऽपि वल्लवः किमु राजकम् ॥
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद् व्याहृतं तद्द्वितीयम् ।
प्रियं वदेद् व्याहृतं तत्तृतीयं धर्म्यं वदेद् व्याहृतं तच्चतुर्थम् ॥
अव्युत्पन्नस्वभावानां नारीणमिव सांप्रतम् ।
सीत्काराचार्यकं कर्तुम् अयं प्राप्तो हिमागमः ॥
अव्युत्पन्ने श्रोतरि वक्तृत्वमनर्थकं पुंसाम् ।
नेत्रविहीने भर्तरि लावण्यमनर्थकं स्त्रीणाम् ॥
अव्रतस्यापि ते धर्मः कार्य एवान्तरान्तरा ।
मेधीभूतोऽपि हि भ्राम्यन् घासग्रासं करोति गौः ॥
अशक्तः सततं साधुः कुरूपा च पतिव्रता ।
व्याधितो देवभक्तश्च निर्धना ब्रह्मचारिणः ॥
अशक्तस्तस्करः साधुः कुरूपा चेत् पतिव्रता ।
रोगी च देवताभक्तो वृद्धा वेश्या तपस्विनी ॥
अशक्तस्तु भवेत् साधुर् ब्रह्मचारी व निर्धनः ।
व्याधितो देवभक्तश्च वृद्धा नारी पतिव्रता ॥
अशक्ताः शक्तिमात्मीयां श्लाघन्ते ये च दुर्जनाः ।
ते भवन्त्युपहासाय महतामेव संनिधौ ॥
अशक्ते रौद्रतातैक्ष्ण्यं तीव्रपापेषु धीरता ।
छद्मधीर्वाचि पारुष्यं नीचानां शौर्यमीदृशम् ॥
अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् ।
संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0