भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3123-3142

3123

अलब्धान्तः प्रवेशस्य तारमाक्रन्दतो बहिः ।
प्रभो करुणया कर्णे क्रियन्तां कृपणोक्तयः ॥

3124

अलब्धे रागिणो लोका अहो लब्धे विरागिणः ।
हेमन्ते तापमीहन्ते हन्त ग्रीष्मे हिमं पुनः ॥

3125

अलब्ध्वापि धनं राज्ञः संश्रिता यान्ति संपदम् ।
महाह्रदसमीपस्थं पश्य नीलं वनस्पतिम् ॥

3126

अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः ।
आनन्तर्यं चारभते न प्राणानां धनायते ॥

3127

अलभन्त नभःक्षेत्रे तारास्तरलकान्तयः ।
त्विषं तुषारबीजानां नूतनाङ्कुरशालिनाम् ॥

3128

अलभ्यं लप्स्यमानेन तत्त्वं जिज्ञासुना चिरम् ।
जिगीषुणा ह्रियं त्यक्त्वा कार्यं कोलाहलो महान् ॥

3129

अलभ्यं लब्धुकामस्य जनस्य गतिरीदृशी ।
अलब्धेषु मनस्तापः संचितार्थो विनश्यति ॥

3130

अलभ्यलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय च ।
यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय ॥

3131

अलमतिचपलत्वात् स्वप्नमायोपमत्वात् परिणतिविरसत्वात् संगमेनाङ्गनायाः ।
इति यदि शतकृत्वस् तत्त्वमालोचयामस् तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥

3132

अलमथवा बहुवादैर् विरचय लोकानुरागनिर्बन्धम् ।
तत्रैकत्र समग्रं तन्निहितं यन्न जातु संनिहितम् ॥

3133

अलमन्ध भुजायष्टिभ्रान्त्या भ्रातर्जडस्य ते ।
दंशाय दंदशूकोऽयं दंशमुद्रां न मुञ्चति ॥

3134

अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम् ।
प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥

3135

अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः ।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥

3136

अलमप्रियाण्युदित्वा रुचिरार्थाः किमिह न स्थिता वाचः ।
अमृतमिति वचसि सत्यपि विषमिति हि किमुच्यते वारि ॥

3137

अलमभिमुखैर्बद्धैर्भोगैरलं भ्रमिभिर्दृशोर् अलमविरलैर्गर्जोद्गारैरलं विषवृष्टिभिः ।
किमिह भुजगाः कोपावेगैरमीभिरमुद्रितैर् ननु भगवतस्तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ॥

3138

अलमलमघृणस्य तस्य नाम्ना पुनरपि सैव कथा गतः स कालः ।
कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयम् ॥

3139

अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम् ।
चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि ॥

3140

अलमलमतिवृद्ध्या स्थीयतां तस्य पश्यस्य् अकरुण करभोरोर्भज्यते मध्यमेतत् ।
इति गुरुजघनाज्ञाचोदिता रोमराजिः स्तनयुगमसिताक्ष्या वक्तुमारोहतीव ॥

3141

अलमलमनुगम्य प्रस्थितं प्राणनाथं प्रथमविरहशोके न प्रतीकार एषः ।
सपदि रमणयात्रा श्रेय इत्यारटन्त्या चरणपतनपूर्वं सा निरुद्धेव काञ्च्या ॥

3142

अलमलमियमेव प्राणिनां पातकानां निरसनविषये या कृष्ण कृष्णेति वाणी ।
यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा विलुठति चरणाब्जे मोक्षसाम्राज्यलक्ष्मीः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc