महासुभाषितसंग्रह · श्लोक 3103-3122
अलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन ।
अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ॥
अलकतमः परिपीतं सुस्मितसुषमापुरस्कृतं मधुरम् ।
को न सुधानिधिसहजं सुमुखि मुखं हन्त संमनुताम् ॥
अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैर्धृताः ।
उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रताम् ॥
अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु ।
नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥
अलक्तको यथा रक्तो नरः कामी तथैव च ।
हृतसारस्तथा सोऽपि पादमूले निपात्यते ॥
अलक्तको यथा रक्तो निष्पीड्य पुरुषस् तथा ।
अबलाभिर्बलाद् रक्तः पादमूले निपात्यते ॥
अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु ।
स्मरेणापि सरोजाक्षी न लक्ष्यीक्रियते शरैः ॥
अलक्षितगतागतैः कुलवधूकटाक्षैरिव क्षणानुनयशीतलैः प्रणयकेलिकोपैरिव ।
सुवृत्तमसृणोन्नतैर्मृगदृशामुरोजैरिव त्वदीयतुरगैरिदं धरणिचक्रमाक्रम्यते ॥
अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।
निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥
अलघुता जठरस्य कुचौ गता चरणचञ्चलता नयने गता ।
सखि विलोकय मे तनुचेष्टितं विनिमयप्रगतं नवयौवनम् ॥
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥
अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् ।
प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥
अलङ्घ्यं सर्वेषामिह खलु फलं कर्मजनितं विपत् कर्मप्रैष्या व्यथयति न जातासि हृदयम् ।
यदज्ञाः कुर्वन्ति प्रसभमुपहासं धनमदाद् इदं त्वन्तर्गाढं परमपरितापं जनयति ॥
अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥
अलब्धदुग्धादिरसो रसावहं तदुद्भवो निम्बरसं कृमिर्यथा ।
अदृष्टजैनेन्द्रवचोरसायनस् तथा कुतत्त्वं मनुते रसायनम् ॥
अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥
अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥
अलब्धलिप्सा न्यायेन लब्धस्य च विवर्धनम् ।
परिवृद्धस्य विधिवत् पात्रे संप्रतिपादनम् ॥
अलब्धवेतनो लुब्धो मानी चाप्यवमानितः ।
क्रुद्धश्च कोपितोऽकस्मात् तथा भीतश्च भीषितः ॥
यथाभिलषितैः कामैर् भिन्द्यादेतांश्चतुर्विधान् ।
परपक्षे स्वपक्षे च यथावत् प्रशमं नयेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0