महासुभाषितसंग्रह · श्लोक 3143-3162
अलमात्मीयं विदितं विदितं धनिकस्य याचकोऽवहितः ।
चन्द्रं ब्रवीति चटकं चटकं चन्द्रं च लोभलोलमना ॥
अलमादिवराहेण वटुदासं परं स्तुमः ।
जगदुद्धरता येन न वक्रीकृतमाननम् ॥
अलमुदकेन तृणैर्वा मनस्विना प्राणधारणा कार्या ।
नासंस्कृतश्च पुरुषः प्राकृतसत्त्वः प्रणयितव्यः ॥
अललितगतिरुच्चैः स्थूलवक्राङ्गुलीकं वहति चरण युग्मं कन्धरां ह्रस्वपीनाम् ।
कपिलकचकलापा क्रूरचेष्टातिपीना द्विरदमदविगन्धिः स्वाङ्ककेऽनङ्कके च ॥
द्विगुणकटुकषायप्रायभुग् वीतलज्जा लुलदतिविपुलोष्ठी दुःखसाध्या प्रयोगे ।
बहिरपि बहुरोमात्यन्तमन्तर्विशालं वहति जघनरन्ध्रं हस्तिनी गद्गदोक्तिः ॥
अलसं मुखरं स्तब्धं क्रूरं व्यसनिनं शठम् ।
असंतुष्टमभक्तं च त्यजेद् भृत्यं नराधिपः ॥
अलसं वपुषि श्लथं दुकूले चपलं चेतसि धूसरं कपोले ।
चकितं नयने स्तने विलोलं तव नामश्रवणं तनूदरीणाम् ॥
अलसं विक्रमश्रान्तं विहतोपायचेष्टितम् ।
क्षयव्ययप्रवासैश्च श्रमेण विपरिद्रुतम् ॥
भीरुं मूर्खं स्त्रियं बालं धार्मिकं दुर्जनं पशुम् ।
मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥
अलसभुजलताभिर्नादृतो नागरीभिर् भवनदमनकानां नातिथिर्वा बभूव ।
त्वदरिनगरमध्ये संचरंश्चैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः ॥
अलसमधुरा स्निग्धा दृष्टिर्घनत्वमुपागता किसलयरुचिर्निस्ताम्बूलस्वभावधरोधरः ।
त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः प्रकृतिसुभगा गर्भेणासौ किमप्युपपादिता ॥
अलसमुकुलिताक्षं वक्त्रमालोक्य तस्या मयि विलुलितचित्ते मूकभावं प्रपन्ने ।
श्रवणकुवलयान्तश्चारिणा षट्पदेन क्षणमनुगतनादं गीतमन्तः स्मरामि ॥
अलसयति गात्रमधिकं भ्रमयति चेतस्तनोति संतापम् ।
मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः ॥
अलसलुलितमुग्धान्यध्वसंपातखेदाद् अशिथिलपरिरम्भैर्दत्तसंवाहनानि ।
परिमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥
अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥
अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरीम् अदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् ।
तरुणमरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरं जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥
अलसविलसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानाम् ।
प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥
अलसस्याल्पदोषस्य निर्विद्यस्याकृतात्मनः ।
प्रदानकाले भवति मातापि हि पराङ्मुखी ॥
अलसानपि न् न् रक्षेन् न कृतघ्नान् कदाचन ।
द्विषतोऽपि गुणाः काम्याः सुहृदोऽपि न दुर्गुणाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0