भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3003-3022

3003

अर्थिभ्यः कनकस्य दीपकपिशा विश्राणिता राशयो वादे वादिविषाणिनां प्रतिहताः शास्त्रोक्तिगर्वा गिरः ।
उत्खातप्रतिरोपितैर्नृपतिभिः शारैरिव क्रीडितं कर्तव्यं कृतमर्थिता यदि विधेस्तत्रापि सज्जा वयम् ॥

3004

अर्थिभ्यश्च द्विषद्भ्यश्च वैमुख्यं यस्य नास्त्यसौ ।
महोदारः सदा शान्तः कृतज्ञः कोऽपि दुर्लभः ॥

3005

अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः ।
आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचक- श्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥

3006

अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च ।
नष्टधनश्च सशोकः सुखमास्ते निःस्पृहः पुरुषः ॥

3007

अर्थी येनार्थकृत्येन संव्रजत्यविचारयन् ।
तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण ॥

3008

अर्थी लाघवमुच्छ्रितो निपतनं कामातुरो लाञ्छनं लुब्धोऽकीर्तिमसंगरः परिभवं दुष्टोऽन्यदोषे रतिम् ।
निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलः संशयं दुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टं मुहुः ॥

3009

अर्थेन किं कृपणहस्तगतेन तेन रूपेण किं गुणपराक्रमवर्जितेन ।
मित्रेण किं व्यसनकालपराङ्मुखेन ज्ञानेन किं बहुशठाधिकमत्सरेण ॥

3010

अर्थेन परिहीणं तु नरमस्पृश्यतां गतम् ।
त्यजन्ति बान्धवाः सर्वे मृतं सत्त्वमिवासवः ॥

3011

अर्थेन रक्षितमिदं राज्यं पुनरर्थमर्पयति ।
अर्थैकपरो नृपतिः परिहरति पुनः क्षणादुभयम् ॥

3012

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः ।
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥

3013

अर्थेन हीनः पुरुषस् त्यज्यते मित्रबान्धवैः ।
त्यक्तलोकक्रियाहारः परासुरिव निष्प्रभः ॥

3014

अर्थेनापि हि किं तेन यस्यानर्थे तु संगतिः ।
को हि नाम शिखाजातं पन्नगस्य मणिं हरेत् ॥

3015

अर्थेनोपार्ज्यते धर्मो धर्मेणार्थ उपार्ज्यते ।
अन्योन्याश्रयणं ह्येतद् उभयोत्पत्तिसाधनम् ॥

3016

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।
भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम् ॥

3017

अर्थे प्रत्युपलब्धे च परदोषे च कीर्तिते ।
आत्मानं साधु कर्तव्यं शीलवृत्तमभीप्सितम् ॥

3018

अर्थेभ्यो हि विवृत्तेभ्यः संभृतेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥

3019

अर्थेषु काममुपलभ्य मनोरथो मे स्त्रीणां धनेष्वनुचितं प्रणयं करोति ।
माने च कार्यकरणे च विलम्बमानो धिग् भोः कुलं च पुरुषस्य दरिद्रतां च ॥

3020

अर्थेष्वलभ्येष्वकृतप्रयत्नं कृतादरं नित्यमुपायवत्सु ।
जितेन्द्रियं नानुतपन्ति रोगास् तत्कालयुक्तं यदि नास्ति दैवम् ॥

3021

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥

3022

अर्थैरनेकैर्जननीममुष्याश् चित्तं च दत्त्वा चिरकालचिन्त्यम् ।
संतोषयेयं सहसैव भद्रे न चेत् कथं स्याद् इह नः प्रवेशः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc