महासुभाषितसंग्रह · श्लोक 2983-3002
अर्थार्थिनी देवपूजास्पप्नोपश्रुतितत्परा ।
सदा गणकगेहं सा प्रष्टुं याति ग्रहस्थितिम् ॥
अर्थार्थी जीवलोकोऽयं ज्वलन्तमुपसर्पति ।
क्षीणक्षीरां निराजीव्यां वत्सस्त्यजति मातरम् ॥
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ।
जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः ॥
अर्थार्थी यानि कष्टानि मूढोऽयं सहते जनः ।
शतांशेनापि मोक्षार्थी तानि चेन् मोक्षमाप्नुयात् ॥
अर्थार्थी यानि कष्टानि सहते कृपणो जनः ।
तान्येव यदि धर्मार्थी न भूयः क्लेशभाजनम् ॥
अर्थालाभेऽपि महति स्वाध्यायं न समुत्सृजेत् ।
कुलान्यकुलतां यान्ति स्वाध्यायस्य विवर्जनात् ॥
अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनाम् ।
अव्ययेभ्योऽपि ये चार्थान् निष्कर्षन्ति सहस्रशः ॥
अर्था हसन्त्युचितदानविहीनचित्तं भूमिर्नरं च मम भूमिरिति ब्रुवाणम् ।
जारा हसन्ति तनयानुपलालयन्तं मृत्युर्हसत्यवनिपं रणरङ्गभीरुम् ॥
अर्थिको व्याधितो मूर्खः प्रवासी परसेवकः ।
जीवन्तोऽपि मृताः पञ्च पञ्चैते दुखभागिनः ॥
अर्थिता विभवस्त्यागः स्वातन्त्र्यमुचितज्ञता ।
इति पञ्चगुणोपतेम् आश्रयेदाश्रयं नरः ॥
अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो दृप्तः कथं मृष्यते ॥
अर्थिनस्त्वरितदानेन तृप्तिर्भवति यादृशी ।
बहुदानं विलम्बेन न तादृक् तृप्तिकारकम् ॥
अर्थिनां कृपणा दृष्टिस् त्वन्मुखे पतिता सकृत् ।
तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥
अर्थिनां मित्रवर्गस्य विद्विषां च पराङ्मुखः ।
यो न याति पिता तेन पुत्री माता च वीरसूः ॥
अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः ॥
अर्थिनि कवयति कवयति पठति च पठति स्तवोन्मुखे स्तौति ।
पश्चाद्यामीत्युक्ते मौनी दृष्टिं निमीलयति ॥
अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् ।
एवमाह कुशवज्जलदापी द्रव्यदानविधिरुक्तिविदग्धः ॥
अर्थिनो जठरज्वालादग्धा वाक् कंचिदञ्चति ।
तां चाशमयतो वित्तं किन्निमित्तं न विद्महे ॥
अर्थिप्रत्यर्थिलक्षैरप्य् अपराङ्मुखचेतसम् ।
त्वां पराङ्मुखतां निन्युः केवलं परयोषितः ॥
अर्थिभुक्तावशिष्टं यत् तदश्नीयान् महाशयः ।
श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0