भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 3023-3042

3023

अर्थैरर्था निबघ्यन्ते गजैरिव महागजाः ।
न ह्यनर्थवता शक्यं वाणिज्यं कर्तुमीहया ॥

3024

अर्थैर्विहीनः पुरुषो जीवन्नपि मृतोपमः ।
धर्मार्थविद्यार्जनतो मतिर्यस्य निवर्तते ॥

3025

अर्थो गिरामपिहितः पिहितश्च कश्चित् सौभाग्यमेति मरहट्टवधूकुचाभः ।
नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः ॥

3026

अर्थोत्कण्ठावकुण्ठप्रमुषितविनयैर्लुठ्यतां नाकिशुण्ठैः प्रत्नो रत्नोच्चयः किं त्वतिविषमदशां तामनुध्याय खिद्ये ।
सिन्धो मन्थाद्रिमन्थात् तरलतरबृहद्भङ्गसंघातघात- प्रभ्रश्यन्मूलवेलागिरिगणपतनोद्दामधामन्धमीका ॥

3027

अर्थो नराणां पतिरङ्गनानां वर्षा नदीनामृतुराट् तरूणाम् ।
स्वधर्मचारी नृपतिः प्रजानां गतं गतं यौवनमानयन्ति ॥

3028

अर्थो न संभृतः कश्चिन् न विद्या काचिदर्जिता ।
न तपः संचितं किंचिद् गतं च सकलं वयः ॥

3029

अर्थो नाम जनानां जीवितमखिलक्रियाकलापश्च ।
तमपि हरन्त्यतिधूर्ताः छगलगला गायना लोके ॥

3030

अर्थोपचयविज्ञानम् अस्ति यस्य स पण्डितः ।
सरः सलिलसंपूर्णम् आश्रयन्ति विहङ्गमाः ॥

3031

अर्थोपार्जनदक्षश्च क्षान्तिशीलः सदा भवेत् ।
न तत्र परकार्याणि विद्वानापि विशेषयेत् ॥

3032

अर्थोऽप्यर्थेन चेत् साध्यः का वार्ता धर्मकामयोः ।
अर्थः सर्वजगन्मूलम् अनर्थोऽर्थविपर्ययः ॥

3033

अर्थो विनैवार्थनयोपसीदन् नाल्पोऽपि धीरैरवधीरणीयः ।
मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥

3034

अर्थोष्मा पितृलालनं विटघटामेलः प्रियंमन्यता तारुण्यं नगरे स्थितिस्तरलता धीः कामशास्त्रं प्रति ।
संगीतं रजनी विधुर्मधुमदः स्पर्धा सपत्नैस्तथा वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकम् ॥

3035

अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या ।
साप्यस्ति चेन्न नववक्रगतिस्तदेतद् व्यर्थं विना रसमहो गहनं कवित्वम् ॥

3036

अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥

3037

अर्थो हि नष्टकार्यार्थैर् अयत्नेनाधिगम्यते ।
उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ॥

3038

अर्थौचित्यवता सूक्तिर् अलंकारेण शोभते ।
पीनस्तनस्थितेनेव हारेण हरिणेक्षणा ॥

3039

अर्धं कलङ्करहिता करुणैव शंभोर् अर्धं गुणास्तदितरे सकलाः समेताः ।
इत्यम्ब संप्रति किल स्फुरितं रहस्यं संपश्यतो मम भवन्मयमैशमर्धम् ॥

3040

अर्धं जितं त्रिपुरमम्ब तव स्मितं चेद् अर्धान्तरेण च तथा भवितव्यमेव ।
तच्चिन्तये जननि कारणसूक्ष्मरूप- स्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ॥

3041

अर्धं दन्तच्छदस्य स्फुरति जपवशादर्धमप्युत्प्रकोपाद् एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव ।
एकं ध्यानान्निमीलत्यपरमविकसद्वीक्षते नेत्रमित्थं तुल्यानिच्छाविधित्सा तनुरवतु स वो यस्य संध्याविधाने ॥

3042

अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले पुरहराभावे समुन्मीलति ।
गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां मां तु भिक्षाटनम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc