महासुभाषितसंग्रह · श्लोक 2963-2982
अर्थाद् भ्रष्टस्तीर्थयात्रां तु गच्छेत् सत्याद् म्रष्टो रौरवं वै व्रजेच्च ।
योगाद् भ्रष्टः सत्यधृतिं च गच्छेद् राज्याद् भ्रष्टो मृगयायां व्रजेच्च ॥
अर्थानर्थान्तरे बुद्धिर् निश्चितापि न शोभते ।
घातयन्ति हि कर्याणि दूताः पण्डितमानिनः ॥
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह ।
गुणतः संग्रहं कुर्याद् दोषतस्तु विसर्जयेत् ॥
अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागे रतिं वहति दुर्ललितं मनो मे ।
याच्ञा च लाघवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं परिदेवनेन ॥
अर्था न स्युर्यदि विजहिमो धर्ममर्थैकसाध्यं कायक्लेशैः कतिकतिविधः साधनीयो न धर्मः ।
कायः श्रान्तो यदि भवति कस्तावता धर्मलोपश् चित्तं दत्त्वा सकृदिव शिवे चिन्तितं साधयामः ॥
अर्थानामधिकानां राज्ञा चौरेण वा नाशः ।
अन्ने खल्वतिभुक्ते वमनं वा स्याद्विरेको वा ॥
अर्थानामननुष्ठाता कामचारी विकत्थनः ।
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥
अर्थानामर्जनं कार्यं वर्धनं रक्षणं तथा ।
भक्ष्यमाणो निरादायः सुमेरुरपि हीयते ॥
अर्थानामर्जने दुःखम् अर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥
अर्थानामार्जनं कार्यं वर्धनं रक्षणं तथा ।
भक्ष्यमाणो निरादायः क्षीयते हिमवानपि ॥
अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदित्थं शूरस् त्वं वाग्मिदर्पज्वरशमनविधावक्षयं पाटवं नः ।
सेवन्ते त्वां धनान्धा मतिमलहतये मामपि श्रोतुकामा मय्यप्यास्था न ते चेत् त्वयि मम सुतरामेष राजन् गतोऽस्मि ॥
अर्थानामीश्वरो यः स्याद् इन्द्रियाणामनीश्वरः ।
इन्द्रियाणामनैश्वर्याद् ऐश्वर्याद् भ्रश्यते हि सः ॥
अर्थानाहरतोऽनर्थाः समायान्ति प्रमादिनः ।
अप्रमत्तस्ततो मार्गे नित्यमेवास्तु वित्तवान् ॥
अर्थानुलापान् व्रजसुन्दरीणाम् अकृत्रिमाणां च सरस्वतीनाम् ।
आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ॥
अर्थान् केचिदुपासते कृपणवत् केचित् त्वलंकुर्वते वेश्यावत् खलु धातुवादिन इवोद्बध्नन्ति केचिद् रसान् ।
अर्थालंकृतिसद्रसद्रवमुचां वाचां प्रशस्तिस्पृशां कर्तारः कवयो भवन्ति कतिचित् पुण्यैरगण्यैरिह ॥
अर्थान् ब्रूयान् न चासत्सु गुणान् ब्रूयान् न चात्मनः ।
आदद्यान् न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥
अर्था भाग्योदये जन्तुं विशन्ति शतशः स्वयम् ।
दिग्भ्योऽभ्युपेत्य सर्वाभ्यः सायं तरुमिवाण्डजाः ॥
अर्थाभावे तु यज्ज्ञानं प्रत्यक्षमिव दृश्यते ।
गन्धर्वनगराकारं स्वप्नं तदुपलक्षयेत् ॥
अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये ।
नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ॥
अर्थार्थिना प्रिया एव श्रीहर्षोदीरिता गिरः ।
सारस्वते तु सौभाग्ये प्रसिद्धा तद्विरुद्धता ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0