भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2943-2962

2943

अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य चेक्षणे ॥

2944

अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् ।
स्थानत्यागः पटुता- ऽनुद्वेगः स्त्रीष्वविश्वासः ॥

2945

अर्थस्य साधने सिद्ध उत्कर्षे रक्षणे व्यये ।
नाशोपभोग आयासस् त्रासश्चिन्ता भ्रमो नृणाम् ॥

2946

अर्थस्यानर्थपूर्णस्य कोऽवसीदतु संग्रहे ।
तत्संतुष्टैर्न्नचेदिष्टैर् दुष्टैः स्यान्नयनोत्सवः ॥

2947

अर्थस्योपार्जनं कष्टं कष्टमस्य गृहागमः ।
तस्यागतस्य बन्धुभ्यो विनियोगः सुखावहः ॥

2948

अर्थस्योपार्जनं कृत्वा नैवाभाग्यः समश्नुते ।
अरण्यं महदासाद्य मूढः सोमिलको यथा ॥

2949

अर्थस्योपार्जने दुःखं पालने च क्षये तथा ।
नाशे दुःखं व्यये दुःखं घ्नन्ति चैवार्थकारणात् ॥

2950

अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः ।
वीणावेणुमृदङ्गादीन्य् अत्रोदाहरणानि नः ॥

2951

अर्थांश्च दुर्लभांल्लोके क्लेशांश्च सुलभांस्तथा ।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥

2952

अर्थांस्त्यजत पात्रेभ्यः सुतान् प्राप्नुत कामजान् ।
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥

2953

अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम् ।
असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान् ॥

2954

अर्थाः पादरजोपमा गिरिनदीवेगोपमं यौवनं मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवनम् ।
धर्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ॥

2955

अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः ।
ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥

2956

अर्थाकृष्टधियः पदं रचयतः शब्दावधानात्मनः संधिच्छेदविधाननिर्गमविधिव्यापारमातन्वतः ।
मा मां कश्चिदिह ग्रहीदिति मुहुः साशङ्कमापश्यतश् चौरस्येव कवेर्भयं भवति यत्तद्विद्विषामस्तु वः ॥

2957

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि राजन् ॥

2958

अर्था गृहे निवर्तन्ते श्मशाने चैव बान्धवाः ।
सुकृतं दुष्कृतं चापि गच्छन्तमनुगच्छति ॥

2959

अर्थातुराणां न सुहृन् न बन्धुः कामातुराणां न भयं न लज्जा ।
विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न वपुर्न तेजः ॥

2960

अर्थात् पलायते ज्ञानं मार्जारान्मूषिको यथा ।
वकवत् ज्ञायतामर्थः सिंहवच्च जयेद्रिपुम् ॥

2961

अर्था दुःखं परित्यक्तुं पालिताश्चापि तेऽसुखाः ।
दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत् ॥

2962

अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप ।
प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc