महासुभाषितसंग्रह · श्लोक 2843-2862
अरविन्देषु कुन्देषु रमितं कालयोगतः ।
अये माकन्द जानीहि तवैवायं मधुव्रतः ॥
अरश्मि बिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् ।
दृष्ट्वैकादशमासात्तु नरो नोर्द्ध्वं तु जीवति ॥
अरसापि हि वाग् भाति प्रोक्तावसर एव हि ।
सर्वचित्तप्रमोदाय गालिदानं करग्रहे ॥
अरसिकजनभाषणतो रसिकजनैः सह वरं कलहः ।
लम्बकुचालिङ्गनतो लिकुचकुचापादताडनं श्रेयः ॥
अराजके जीवलोके दुर्बला बलवत्तरैः ।
बाध्यन्ते न च वित्तेषु प्रभुत्वमिह कस्यचित् ॥
अराजके तु लोकेऽस्मिंस् तस्माद् राजा विधीयताम् ।
राजा राज्ये चिरं रक्षां कृत्वा स्वर्गमवाप्नुयात् ॥
अराजकेषु राष्ट्रेषु धर्मो न ह्यवतिष्ठते ।
परस्परं च बाधन्ते सर्वथा धिगराजकम् ॥
अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् ।
रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥
अरातिभिर्युधि सहयुध्वनो हताञ् जिघूक्षवः श्रुतरणतूर्यनिःस्वनाः ।
अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥
अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥
अरालकेश्या अलके विधात्रा विधीयमाने चलतूलिकाग्रात् ।
च्युतस्य बिन्दोरसितस्य मार्ग- रेखेव रेजे नवरोमराजी ॥
अरावप्युचितं कार्यम् आतिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥
अरिं मित्रमुदासीनं मध्यस्थं स्थविरं गुरुम् ।
यो न बुध्यति मन्दात्मा स च सर्वत्र नश्यति ॥
अरिणा सह संवासाद् विषेण सह भोजनात् ।
पाप्मना सह सौहार्दान् मरणं प्रतिपद्यते ॥
अरितोऽभ्यागतो दोषः शत्रुसंवासकारितः ।
सर्पसंवासधर्मित्वान् नित्योद्वेगेन दूषितः ॥
जायते प्लक्षबीजाशात् कपोतादिव शाल्मलेः ।
उद्वेगजननो नित्यं पश्चादपि भयावहः ॥
अरिपक्षाश्रिते मित्रे मर्मवेदिप्रियंवदे ।
विश्वासो नैव कर्तव्यः यदि साक्षाद् बृहस्पतिः ॥
अरिभिर्जितैरशक्तैर् विज्ञाप्यं सेवकैः प्रभोर्नीतिः ।
विषयैर्जितोऽस्मि शंभो तव यच्छ्लाघ्यं तदारचय ॥
अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः ।
भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥
अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ।
अनित्यचित्तः पुरुषस् तस्मिन् को नाम विश्वसेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0